________________
तर्कतरङ्गिणी
'चेत्यात्ममन:संयोगेऽव्याप्तिस्तदपवस्थैव । यद्यप्यात्ममन:संयोगस्य कार्येण सुखेन सममेकार्थप्रत्यासत्तिर्वततेऽऽत्मन्युभयो समवायात्तथापि तेन रूपेण कार्यकारणैकार्थप्रत्यासत्तिसमवेत त्वेन रूपेण कारणत्वं नागतमिति । तथा चात्ममनः संयोगेऽव्याप्तिः । एतदेवाह कार्यमात्रेति यथा घटनिष्ठं घटकार्यतावच्छेदकं घटत्वं तस्य जातित्वात् । न तु कम्बुग्रीवादिकत्वं तस्योपाधित्वात् ।
५३
ननूपाधरेपि कुत्रचिद् कार्यतावच्छेदकत्वं दृश्यते । यथाऽनुष्णाशीतस्पर्शत्वेन कारणता', पाकजान्यजन्यानुष्णाशीतस्पर्शत्वेन कार्यतेति । तन्न स्यादित्यत आह- उपाधाविति तथा च यत्र कार्यताववच्छेदिका' जाति र्न सम्भवति तत्रोपाधेरपि कार्यतावच्छेदकत्वमिति भावः । दूषणान्तरमाहकिञ्चेति एतद्रूपं कार्यकारणैकार्थप्रत्यासत्तिसमवेतत्वरूपमदृष्टेऽ' प्यस्ति । सुखेन कार्येण सममेकार्थेऽऽत्मन्यदृष्टस्य समवेतत्वात् । ततोऽदृष्टेऽतिव्याप्तिस्तदवस्थैवेति ।
अनेनति अदृष्टत्वेन रूपेणादृष्टस्य कारणता नास्ति । किन्तु कार्यकारणैकार्थप्रत्यासत्तिसमवेतत्वेन रूपेण । तथा च कार्यकारणैकार्थप्रत्यासति समवेतत्वमितिप्रसक्तेऽदृष्टेऽपि सत्त्वात् । तदसमवायिकारणतावच्छेदकं न सम्भवतीत्यनुगतलक्षणमपि दूषितमिति ।
अत्र प्रकारान्तरेण समाधत्ते - नन्विति सामान्यत इति कार्यकारणभावप्रत्यासत्तिसमवेतत्त्वेन रूपेणात्ममन:संयोगादीनामसमवायिकारणता माऽस्तु किन्त्वात्ममन:संयोगादिना कारणत्वम् । सुखत्वज्ञानत्वादिना कार्यत्वम् । तथा च विशेषेणैव चोक्तरूपेणात्ममनः संयोगत्वे सुखत्वादिना कार्यकारणभाव इति । अत्र विशेषतः कार्यकारणभावे कार्यकारणैकार्थप्रत्यासत्तिरूपः सम्बन्धः ग्राह्यः । तथा चानेन सम्बन्धेन कार्यकारणैकार्थप्रत्यासतिरूपेण सम्बन्धेनात्ममनः संयोगादीनां सुखादीन्प्रत्यात्ममनः संयोगत्वेन रूपेणासमवायिकारणत्वम् । अदृष्टे तु न तथा । समवायसम्बन्धेनादृष्टस्य चादृष्टत्वेन रूपेण भोगं प्रति कारणत्वम् । न 'तूक्तसम्बन्धेन । तथा चादृष्टे नातिव्याप्तिरिति सिद्धान्तः ।
तथा च कार्यकारणैकार्थप्रत्यासतिसम्बन्धेन यद् कार्यं प्रति कारणम् तत्कार्य प्रति तदसमवायिकारणम् । यथा घटं प्रति कपालद्वयसंयोगः । तथैव कारणत्वस्वीकारात् । अदृष्टस्य तु समवायिसम्बन्धेनैव भोगं प्रति निमित्तकारणत्वस्वीकारात् । तथा कारणत्वे इति कार्यत्वादिसम्बन्धेनेत्यर्थः ।
इदं दूषयति - तन्तुसंयोगादीनामिति तथा च तन्तुसंयोगादीनामपि कार्यकारण
१. A सुखत्वेनेति न चेत्या. २. B omits रूपेण. ३. A कारणत्वं. ४. B – वच्छेदका ५ B -मदृष्टेऽस्ति । ६. B omits तु. ७. B तूक्तरूपेण
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org