________________
५४
तर्कतरङ्गिणी कार्थप्रत्यासत्तिसम्बन्धेन कारणत्वे प्रमाणं 'नास्तीति । यथाऽदृष्टस्य समवायसम्बन्धेन भोगं प्रति कारणत्वमुक्तं तथा तन्तुसंयोगादीनामपि पटादिकं प्रति समवायसम्बन्धेन संयोगसम्बन्धेन च कारणत्वम् । यथा दण्डः संयोगसम्बन्धेन[न]घटं प्रति कारणम् । कारणतावच्छेदकं तु दण्डत्वम्, तथा तन्तुसंयोगस्य पटं प्रति कारणता । समवायसम्बन्धेन कारणतावच्छेदकस्तु धर्म: तन्तुसंयोगत्वम् । तथा च तन्तुसंयोगादावव्याप्तिः । तेन तन्तुसंयोगस्य कार्यकारणैकार्थप्रत्यासत्तिरूपेण सम्बन्धेन कारणत्वे प्रमाणाभाव इति सिद्धम् ।
अथानेन सम्बन्धेन तन्तुसंयोगादीनामपि कारणत्वं समर्थयति-नन्विति पटश्च तन्तुरूपं च पटतन्तुरूपे पटरूपं प्रत्यवश्यं कारणे इति हेतोः प्रत्यासत्तिः । कार्यकारणैकार्थप्रत्यासत्तिरपि कारणम्। एतदेवाह-कारणप्रत्यासत्तिरपीति यथा घटरूपं प्रति घटः कारणं भवति, तथा तत्त्प्रत्यासत्तिरपि घटसमवेतत्वरूपनिरूपितसमवायो घटे तिष्ठति तस्यापि कारणत्वमित्यर्थः । तथाहि घटं प्रति दण्डो भवति कारणम्, बाधकाभावात् । तत्संयोगोऽपि घटकारणम् । अन्वयव्यतिरेकयोस्तत्र नियामकत्वात्। एतदेवाह सा चेति प्रकृते कार्यकारणैकार्थप्रत्यासत्तिरेव सम्बन्धः । अन्या संयोगादिका न सम्भवति। यथा पटरूपं प्रति तन्तुरूपं भवति कारणम् । अथ च तन्तुरूपस्य यः सम्बन्धः पटरूपेण समं कार्यकारणैकार्था(थ) प्रत्यासत्तिरूपा(पः) । यथा पटरूपस्य कारणं भवति पटः, अथ च तन्तुरूपम्, अनयोरेव तन्तुषु समवायात् । तथा चायमेव सम्बन्धः 'कार्यकारणैकार्थप्रत्यासत्तिरूपः पटरूपं प्रति कारणं भवति ।
पर्यवसन्नं लक्षणमाह-तथा चेति इदं समवायिकारणे नास्ति । यथा पटरूपं प्रति पो भवति समवायिकारणम्, तथा पटैकार्थसमवायः पटतन्तुत्वयोः यः एकार्थसमवायः तन्तुषूभयोः सत्त्वात्, सः पटरूपं प्रति कारणं न भवति प्रमाणाभावात् ।
ननु पटरूपेण समं पटस्य य एकार्थसमवायः तत्कारणं भवत्विति चेत्, न । पटेन समं पटरूपस्यैकार्थसमवाय एव नास्ति । तथा च पटं प्रति तन्तुसंयोगः, पटरूपं प्रति तन्तुरूपम्, ज्ञानादिकं प्रत्यात्ममनः संयोग: कार्य[कार्थप्रत्यास]त्यादिरूपेणासमवायिकारणमिति सिद्धम् ।
इदं तन्तुसंयोगेऽव्याप्ति दूषयति-तथापीति-भवता पटं प्रति तन्तुसंयोगस्य कार्यकारणैकार्थप्रत्यासत्तिरूपेण सम्बन्धेन कारणत्वं स्वीकृतम्, एतत्सम्बन्धस्यापि कारणत्वं स्वीकृतम् तच्च न सम्भवति । यद्यप्यनेन सम्बन्धेन तन्तुसंयोगस्य पटं प्रति कारणत्वं सम्भवति
१. B नास्ति । २. B repeats here कार्यकारणैकार्थप्रत्यासत्तिसम्बन्धेन कारणत्वे प्रमाणं नास्तीति | Perhaps a scribal mistake. ३. B संयोगस्य तन्तोः पटं. ४. B -स्य पटं प्रति कारणैकार्थ.. ५. B कार्येति पटरूपं प्रति.. ३७२ B इदं दूषयति.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org