________________
तर्कतरङ्गिणी तथाप्येतत्सम्बन्धस्य कारणत्वे प्रमाणं नास्ति । भवता चोक्तं कारणैकार्थप्रत्यासत्तिरपि कारणम् । 'तत्र यद्यप्यन्वयव्यतिरेको प्रमाणं तथापि कार्यैकार्थप्रत्यासत्तेः कारणत्वं वक्तुमशक्यम् । यथा कार्य पटरूपं पटं प्रति कारणं न भवति तथा पटैकार्थसमवायोऽपि कारणं न भवतीत्यर्थः । तन्तुसंयोगे तु पटलक्षणकार्यैकार्थसमवाय एवेति । अनेन सम्बन्धेन तेषु संयोगो यद्यपि कारणं तथापि कार्यैकार्थ प्रत्यासत्तिरूपसम्बन्धस्य कारणत्वं विवक्षितं नास्ति' । विवक्षितं तु भवता यथा यत्पदार्थस्य यत्कार्यं प्रति कार्यकारणैकार्थप्रत्यासत्तिरपि कारणं भवति, तत्कार्यं प्रति तदसमवायिकारणमिति । प्रकृते तु तन्तुसंयोगे इदं नास्ति । तन्तुसंयोगस्य पटं प्रति कार्यैकार्थप्रत्यासत्तिरूपः सम्बन्धः कारणं न भवति। कार्यसम्बन्धस्योक्तरीत्या कारणत्वे प्रमाणाभावात् पूर्ववर्तित्वाच्च । कारणसम्बन्धस्य पूर्ववर्तित्वेन बाधकाभावत्वेन च कारणत्वं कल्प्यते । तथा च तन्तुसंयोगस्य कारणैकार्थप्रत्यासत्त्या कारणत्वमेव नास्ति । वर्तते च कार्यैकार्थप्रत्या सत्त्वात् । ततः कार्यैकार्थप्रत्यास त्तिः । कारणत्वाभावात् । तन्तुसंयोगेऽव्याप्तिः । एतदेवाह तथेत्यादिना । तथा च तन्तुरूपस्यैव कारणैकार्थप्रत्यासत्तिरूपेण सम्बन्धेन पटरूपं प्रत्यसमवायिकारणत्वम् । कुतः ? कारणैकार्थ सम्बन्धस्यापि कारणत्वम् । कुतः? कारणैकार्थसम्बन्धस्यापि कारणत्वसम्भवात् । न तु तन्तुसंयोगे चेदमस्ति यद्यपि कार्यैकार्थसमवायसम्बन्धेन तन्तु संयोगोऽपि कारणं भवति, स सम्बन्धः "कार्यैकार्थसमवायरूप: कारणं न भवतीति सिद्धम् ।
अव्याप्त्युद्धारा) मध्ये शङ्कते-नन्वति तथा च भवतु कार्यकारणैकार्थप्रत्यासत्तिरूपेण सम्बन्धेन यत्कारणं तदसमवायिकारणम् । नत्वेतत्सम्बन्धस्यापि कारणत्वं लक्षणे प्रवेशनीयम् । सम्बन्धस्यापि कारणके सम्बन्धिनः कारणत्वमेव न स्यात् । तस्यावच्छेदकत्वात् ।
___ अन्यथासिद्धेश्चेति यदवच्छेदकं भवति तत्कारणं न भवति । यथा घटं प्रति दण्डत्वम् । अवच्छेदकत्वेन कारणतया तन्तुसंयोगस्य कार्यकारणैकार्थप्रत्यासत्तिरूपः सम्बन्धः यदि कारणम्, तदा तन्तुसंयोगः तत्सम्बन्धस्य भवत्यवच्छेदकः । तेन तन्तुसंयोगस्य कारणत्वं न स्यात् । एवं तन्तुरूपस्यापि कारणं(णत्वं) न स्यात् । तन्तुरूपस्य तादृशसम्बन्धस्य कारणत्वं वाच्ये तन्तुरूपमप्यवच्छेदकं भवति । यथा दण्डी पुरुषः तथा तन्तुरूपसम्बन्ध इति । अयं दण्डो भवति पुरुषस्यावच्छेदकः । विशेषणतया यद् भासते तदेवावच्छेदकमिति । प्रकृते च तन्तुसंयोगस्य कारणत्वे कल्प्यमानविशेषणत्वेन तन्तुसंयोगस्य विशेषणत्वं प्रतीयते इति । अत्र तन्तु संयोगसम्बन्धस्यकारणत्वे विनिगमनाविरहाभावेनावच्छेदकत्वेन तन्तुसंयोगस्यान्यथासिद्धत्वात् ।
१. B omits the reading between तत्र................प्रति कारणं. २. B नास्ति यथा यत्पदा. ३. B कारणं४. Bomits कार्यैकार्थसमवायरूपः. ५. B कार्यप्र(?)कारणे.. ६. B omits तथा तन्तुरूपसम्बन्ध.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org