________________
तर्कतरङ्गिणी अयमर्थः-यत्र तु विनिगमनविरहो नाम एकत्रानुकूलतर्काभाव' इदं वा कारणमिदं वा कारणमिति विनिगमकं यत्र नास्ति तत्रोभयकारणत्वम् । यथा व्यभिचारज्ञानाभावविशिष्टसहचारज्ञानं व्याप्तिज्ञानं प्रति कारणमित्यत्र विनिगमनाविरहेण व्यभिचारज्ञानाभावस्य सहचारज्ञानस्य च कारणत्वम्। अत्र तु व्यभिचारज्ञानाभावसहचारज्ञानस्य वाऽवच्छेदकत्वं कल्पयितुमशक्यत्वादुभयं कारणम् । “यत्र च विनिगमकं तिष्ठति तत्रावश्यमेकस्यावच्छेदकमेव कल्प्यते । यथा घटं प्रति दण्डस्य कारणत्वम् । 'दण्डत्वस्य कारणतावच्छेदकत्वं कल्प्यते, परन्तु तत्रैवं वक्तुं न शक्यते । दण्डत्वस्य कारणत्वं दण्डस्यावच्छेदकत्वम् । दण्ड एव घटर्थिनः प्रवृत्तिदर्शनात् । दण्डे यदि-प्रवृत्तिः, तदा दण्डत्वज्ञानव्यतिरेकेण प्रवृत्तिरिति । तथा च प्रकृते तन्तुसंयोगस्य तादृशसम्बन्धस्यापि कारणत्वे स्वीक्रियमाणे तन्तुसंयोगस्यावच्छेदकत्वेन विनिगमनाविरहाभावेनान्यथासिद्धेश्च कारणत्वं न स्यात् । 'तस्य कारणत्वं च सर्वजनसिद्धमेव । तेन विनिगमनाविरहनिर्वाहार्थं कार्यकारणैकार्थप्रत्यासत्तिरूपसम्बन्धवत् तन्तुसंयोगत्वेन तन्तुरूपत्वेन च पटं प्रति पटरूपं प्रति च कारणत्वं वाच्यम् ।
फलितमाह-तथा चेति तादृशेति कार्यकारणैकार्थप्रत्यासत्तिलक्षणसमवायित्वं यत्र कारणतावच्छेदकं भवति तदसमवायिकारणम् । तन्तुरूपं पटरूपं प्रति भवत्यसमवायिकारणम् । यथा तस्या(स्य)कार्यकारणैकार्थप्रत्यासत्ति समवायलक्षणसम्बन्धवत्त्वं तन्तुरूपत्वेन कारणत्वेन वाच्ये, तादृशसमवायित्वं भवति कारणतावच्छेदकत्वम् । तद्विशिष्टं भवति तन्तुरूपं-तदसमवायिकारणम् । एवं तन्तुसंयोगस्यापि परं प्रत्यसमवायिकारणत्वमिति । तथा च सम्बन्धवत्त्वान्तमवच्छेदकम् । अयं भाव:यत्र तादृशसम्बन्धवत्त्वपर्यतन्तमवच्छेदकं भवति, तस्यैवासमवायिकारणत्वम् । एवं सर्वत्रेत्याशङ्कार्थः ।
पटेऽतिव्याप्त्या दूषयति-एवमिति पटरूपं प्रति पटस्यापि कार्यकारणैकार्थप्रत्यासत्तिरूपसम्बन्धवत् पटत्वेन कारणत्वं वाच्यम् । इदं चावश्यं वाच्यमेव । अन्यथा यदि पटसम्बन्धकारणम्, तदा घटस्यावच्छेदकत्वेन कारणमेव न स्यादित्यसिद्धिः । ततोऽनेन रूपेण पटरूपं प्रति कारणत्वं वाच्यम् । तथा पटेऽतिव्याप्तिः ।
___अतिव्याप्त्युद्धाराय शङ्कते-नन्विति तथा च पटे कारणैकार्थप्रत्यासत्तिः तूभयथा न सम्भवति । न वा कार्यैकार्थप्रत्यासत्तिः, न वा कारणैकार्थप्रत्यासत्तिः । प्रथमा नास्तीत्याह-नेति -तथा च कार्य भवति पटरूपम्, कारणं भवति पटः । अनयोरेकार्थसमवायो नास्ति । पटरूपस्य पटे एव समवेतत्वात्।
नापि द्वितीयेत्याह-कारणेति कारणं भवति पटः, तेन समं पटस्यैकार्थसमवायो नास्ति कुत इति चेदित्यत आह-अभेद इति पटेन समं पटस्याभेदः । तन्निरुपितैकार्थसमवायस्य तत्र १. B omits तु. २. B omits the reading between इदं वा....नास्ति ३. B तथोभय. ४. A न यत्र च. ५. B दण्डस्य. ६. B दण्डस्य. ७. B दण्डस्य A दण्डत्वे. However as प्रवृत्ति takes place in दण्ड, दण्डे is used above. ८. A omits तस्य. ९. B कारणं.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org