________________
तर्कतरङ्गिणी पटेऽभावादित्यर्थः । एकार्थसमवायस्य भेद एवाभावादित्याशयः । ततः पटे कार्यकारणैकार्थप्रत्यासत्तिरूपसम्बन्धाभावेन तेन रूपेणाकारणत्वान्न तत्रातिप्रसङ्ग इत्यर्थः । एतदेवाह-कार्यकारणभावेति पूर्वोक्तमेव लक्षणं दूषयति-एवमपीति कार्यकारणैकार्थप्रत्यासत्ते:कारणत्वस्वीकारेऽपि तन्तुसंयोगेऽव्याप्तिः तदवस्थैव । कथमित्यत आह कार्येति तच्चोक्तप्रायमेव । येनेति-यया तन्तुसंयोगे कार्येण पटेन सहैकार्थसमवायः-एकार्थ तन्तुलक्षणैकार्थप्रत्यतासत्तिः तिष्ठति । एतस्यां च कारणत्वे वाच्ये 'तन्तुसंयोगेऽन्यथासिद्धिः स्यात्, अवच्छेदकत्वेन । स चावच्छेदको न भवति, तादृशप्रतीतेरभावात् । तथा च तन्तुसंयोगेर तादृशसम्बन्ध एवावच्छेदकत्वेन वाच्यः । यतः कार्यैकार्थप्रत्यासत्तिरूपसम्बन्धवत्त्वं तन्तुसंयोगवत्त्वेन कारणत्वमिति । इदं तु विशेषणं तादृशसम्बन्धस्य कारणत्वाभावार्थमवच्छेदकत्वं कल्प्यम् । इदं न सम्भवतीत्वाह न हीति तथा च तन्तुसंयोगे एव तस्यावच्छेदकत्वादव्याप्तिस्तदवस्थैवेति भावः ।
'उक्तरूपसम्बन्धस्यापि कारणत्वानयनार्थं शङ्कयते नन्विति यत्र सहस्रतन्तुक: पटः तत्र संयोगाः बहवः वा कारणमिति विनिगमनाविरहात्सर्वेषां कारणत्वं वाच्यमेवेति । तथा च व्यधिकरणानां संयोगानां कारणत्वासम्भवेन परस्परं तेषां प्रत्यासत्तिसम्बन्धो वाच्य एव । तेषां परस्परमन्यसम्बन्धाभावेनेयमेव कार्यैकार्थप्रत्यासत्ति रूपसमवायस्यैव वाच्यत्वात्, सम्बन्धस्याप्यवश्यं पटं प्रति कारणत्वं वाच्यमेव । सहस्रतन्तुके पटे उत्पद्यमाने प्रथमतन्तुसंयोगस्यापि कारणत्वं द्वितीयादीनामपि । तथा च यथाश्रुतेर्व्यभिचारो भवति । तथाहि यत्र समवायसम्बन्धेन सहस्रतन्तुकः पटस्तत्र समवायसम्बन्धेन प्रथमतन्तुसंयोगः “सहस्रतन्तुकः पटस्तिष्ठति तृतीये तन्तौ । तत्र प्रथमतन्तुसंयोगो नास्ति तत्रापि सहस्रन्तुकपटस्योत्पद्यमानत्वाद् व्यभिचारः । यथा कार्यसत्त्वे कारणसत्त्वं व्यभिचारः । तथा च व्यभिचारवारणार्थं कार्यैकार्थसमवायसम्बन्धेन सर्वेषां प्रथमादीनां संयोगानां कारणत्वं वाच्यम् । तेन न व्यभिचारः । यत्र समवायसम्बन्धेन पटस्तत्र कार्यैकार्थसमवायसम्बन्धेन तन्तुसंयोगः, 'कार्यो भवति पटः । तेन सह तन्तुसंयोगस्यैकार्थतन्तुलक्षणः, तत्र समवायात् । प्रथमतन्तुसंयोगेऽप्यनेन सम्बन्धेन तृतीयादितन्तुषु तिष्ठतीति न दोषः । तेन कार्यकारणैकार्थप्रत्यासत्तिरूपसम्बन्धवत्तन्तुसंयोगत्वेन पटं प्रति कारणत्वं सिद्धमिति । तन्तुरूपस्याप्यनेनैव रूपेण कारणैकार्थप्रत्यासत्तिलक्षणसम्बन्धवत्त्वं तन्तुरूपत्वेन पटरूपं प्रत्यसमवायिकारणत्वं सिद्धमिति ।
अन्येति तन्तुसंयोगतन्तुरूपयोर्संयोगाभावात्समवायस्य चोक्तरीत्या व्यभिचारित्वात् १. A तन्तुसंयोगोऽन्य. २. A -संयोगस्य. ३. B एतादृश. ४. This प्रतीक comes before the previous two प्रतीकs in the available text of त. भा. प्र. ५. B omits उक्तरूप. ६. B सम्बन्धासम्भवेन. ७. B -सत्तिसमवाय.. ८. A यथा सहस्र. ९. B omits the reading between कार्यो....समवायात. तर्क.-८
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org