________________
तर्कतरङ्गिणी
प्रत्यासत्तित्वं न सम्भवतीति । वक्तु (स्तु) रूप एव सम्बन्धी ग्राह्य इत्यर्थः । एतदेव लक्षणं योजयति एकार्थेति प्रथमतन्तुसंयोगतृतीयतन्तुसंयोगयोः कार्यकारणैकार्थप्रत्यासत्तिरूपेण सम्बन्धेन कारणत्वम् । यथा कार्यं भवति पटः, कारणं भवति प्रथमतन्त्वादिसंयोगः । अनयोरेकत्र तन्तौ समवाय इत्यनेन सम्बन्धेन प्रथमतन्तुसंयोगोऽपि द्वितीयादितन्तुषु तेन सम्बन्धेन तिष्ठति । यथा यद्यपि जले वह्निः न प्रतीयते तथापि कालिकसम्बन्धेन जले वह्निसत्त्वं सर्वैः प्रतीयते इति । इदानीं वह्निरिति जन्यमात्रस्य कालोपाधित्वात् । तथा प्रकृतेऽपि प्रथमतन्तुसंयोगो यद्यपि द्वितीयादिषु तन्तुषु [न] प्रतीयते तथाप्यनेन सम्बन्धेन तस्य तत्र सत्त्वेन व्यभिचाराभावान्नदोषः ।
५८
ननु तन्तु संयोगादिस्थलेऽन्यथाऽनुपपत्त्याऽयं सम्बन्धः स्वीकर्तव्य एव, न तु तन्तुरूपादिस्थलेऽयं सम्बन्धः स्वीकर्तव्य इत्याशङ्कानिवारणार्थमाह- तथा चेति यथैकत्र सिद्धोऽर्थोऽन्यत्र कल्प्यत इति न्यायेन कार्यकारणैकार्थप्रत्यासतिरूपसम्बन्धस्य तन्तुसंयोगादिस्थले पटं प्रति कारणत्वं क्लृप्तम्, तथाऽन्यत्र तन्तुरूपादिस्थलेऽपि तस्य कारणत्वं कल्प्यत इत्यर्थः । उक्तलक्षणे कार्यकारणैकार्थप्रत्यासत्तिगर्भे व्याप्तिमाह- कर्मणीति तथा च कर्मणा घटादि कर्मणा यदा घटकाशसंयोगो जन्यते तदा घटाकाशसंयोगो भवति कार्य:, तत्र कर्म भवत्यसमवायिकारणम् । तत्रेदं लक्षणं नास्ति । कथमित्याह - संयोगेति कर्मणि कार्यैकार्थप्रत्यासत्तेरभावात् तेन रूपेण नासमवायिकारणत्वम् । यथा कार्योभवति संयोगः, स चाकाशे तिष्ठति । तत्र कर्म नास्ति, इति कार्येण सहैकार्थप्रत्यासत्तिर्नास्ति । कारणैकार्थप्रत्यासत्तिरपि नास्ति । कारणं भवति घटनिरूपिताकाशसंयोगं प्रति घट:कर्म । तदधिकरणे घटे घटनिरूपितसंयोगाभावेन कारणैकार्थप्रत्यासत्तिरप्यभावेन लक्षणमव्यापकम् ।
ननु यथाश्रुतमेव मूलोत्तमस्तु - इत्याह नन्विति तथा चेदं लक्षणं निमित्तकारणे नास्ति । समवायिकारणप्रत्यासन्नत्वपददानात् । तददाने चातिव्याप्तिरेवेत्याह- तत्रेति तथा च समवायिकारणपदस्य कृत्यं कृतमिति भावः । ननु निमित्तकारणस्य समवायिकारणप्रत्यासन्नत्वं कथं नास्तीति चेत्, अदृष्टलक्षणे निमित्तकारणे सुखादिसमवायिकारणात्मनि समवेतत्वात् । तथा च निमित्तकारणेऽपि समवायिकारणं नास्ति । समवायिकारणप्रत्यासन्नत्वसम्भवादित्यतिव्याप्ति [स]मुद्धारार्थं विवक्षान्तरमाह - तत्रैवेति यथा घटो घटरूपं प्रति समवायिकारणं भवति, तत्रैव घटरूपे तत्कपालरूपं[अ] समवायिकारणं नियमेन भवति । इदमेव समवायिकारणप्रत्यासन्नपदेन लभ्यते । न एदं निमित्तकारणे । यथा घटध्वंसे निमित्तकारणं भवति घटस्तत्र घटध्वंसे समवायिकारणत्वाभावेऽपि घटस्य कारणत्वम् । तथा च निमित्तकारणस्थले नियमाभावात् ।
१. B लक्षणे. २. A स्वीकार्य: । ३. B तत्रापि कारणत्वात् । एतदेवाह तत्रैवेति. ४. B कारणम् ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org