SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ तर्कतरङ्गिणी ५९ असमवायिकारणस्थले तु 'समवायिकारणव्यतिरेकेणासमवायिकारणाभावे कार्यानुपपत्तेरित्याह-न चैवं निमित्तकारणमिति । इदं दूषयति- समवायिकारणत्वेति तथा च यत्र समवायिकारणं कारणं तत्रापि समवायिकारणस्याप्यभेदेन कारणत्वं वर्तते एवेति । तेन समवायिकारणेऽतिव्याप्तिः । तदुद्धर्तुं शङ्कते भेदेति तथा चायमर्थः - यत्र समवायिकारणं कारणं तत्रैव यत्समवायिकारणभिन्नकारणं तदेव समवायिकारणप्रत्यासन्नपदेन विवक्षितमिति समवायिकारणे नातिव्याप्तिरित्यर्थः । निमित्तकारणेऽतिव्याप्त्या दूषयति या निमित्तेति च यत्र भावमात्रनिष्ठकार्यतानिरूपित कारणता तिष्ठति तत्र निमित्तकारणेऽतिव्याप्तिः । यत्र समवायिकारणं कारणं तत्रैव निमित्तकारणस्यापि कारणत्वादित्यर्थः । निमित्तकारणेऽतिव्याप्तिवारणार्थं विवक्षान्तरमाह-यः कारणनेति कारणताविभाजकः उपाधिः। य उपाधिना लक्षणेनासाधारणधर्मेण कारणानां परस्परं निमित्तकारणादीनां विभागो क्रियते, स कारणता विभाजकः उपाधिशब्दनोच्यते । यथा समवायि कारणत्वमसमवायिकारणत्वं निमित्तकारणत्वमिति । तथा चैतन्मध्ये यः कारणताविभाजकोपाधिः समवायिकारणस्य यत्कार्यं तन्निष्ठा या कार्यता, तन्निरुपिता [ या ] कारणता, तन्नियतस्तद्व्याप्यो यो धर्मः, तद्वत्त्वमेवासमवायिकारणत्वम् । यधा घटं प्रति कपालं भवति समवायिकारणम्, तस्य कार्यं भवति घटः, तन्निष्ठा घटनिष्ठा या कार्यता, तन्निरुपिता या कारणता सा यथा कपाले तिष्ठति तथा कपालसंयोगेऽपि तद्व्याप्यो धर्मो भवत्यसमवायिकारणत्वरूपः, तद्वत्त्वं वर्तते कपालसंयोगस्य । तथा च यत्र यत्रासमवायिकारणत्वं तत्र तत्र समवायिकारणकार्यनिष्ठकार्यतानिरुपित कारणताव्याप्यधर्मवत्त्वमसमवायिकारणत्वमिति । नेदं गच्छति निमित्तकारणे । तत्र 'कारणताविभाजकोपाधिर्भवति निमित्तकारणत्वम् । स उपाधिः समवायिकारणकार्यनिष्ठकार्यता-निरूपितकारणतानियतो न भवति व्याप्यो न भवतीति यावत् । यथा घटध्वंसे निमित्तकारणं भवति घटस्तत्र यः उपाधिः वर्तते निमित्तकारणत्वं स उपाधिः समवायिकारणकार्यनिष्ठकार्यतानिरूपित कारणताव्याप्यो न भवति । धटध्वंसस्य समवायिकारणकार्यत्वादिति । एतदेवाह - न चैवमिति । इदं दूषयति विभागकोपाधेरेवेति तथा चासमवायिकारणत्वस्यैव विचार्यमाणत्वात् पूर्वं तत्ज्ञानाभावात् तद्घटितलक्षणं न सम्भवतीति भावः । मध्ये यदुपस्थापितं लक्षणं तदपि दूषयित्वा A omits कारण. २. B omits इति. ३. B निमित्तस्यापि कारण.. ४. B यथा निमित्तकारणत्वम(म्)समवायिकारणत्वमसमवायिकार. ५. B adds या after कारणता, ६. B omits भवति, ७. B कार्यता. ८. B - निष्ठकारणताकारणता (!) नियतो. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002581
Book TitleTarkatarangini
Original Sutra AuthorN/A
AuthorGunratna, Vasant G Parikh
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy