________________
६०
तर्कतरङ्गिणी पूर्वोक्तं कार्यकारणैकार्थसमवेतत्वादिघटितमुट्टङ्कयति-नन्विति तथा च पूर्वं यदुक्तं यत्र कारणैकार्थप्रत्यासत्तिलक्षणसम्बन्धो कारणावच्छेदको भवति, तदवच्छिन्नत्वमसमवायिकारणत्वमिति पर्यवसितम्।
___ तत्र यदवच्छिन्नत्वभागमादाय पूर्वपक्षयति त [दवच्छिन्नकारणत्वमिति] तेन धर्मेणावच्छिद्यते य कार[ण]ता, तदवच्छिनकारणत्वम्, तत्कारणत्वं किं स्वरूपयोग्यं विवक्षितम्, स्वरूपयोग्यत्वं नाम कारणतावच्छेदकधर्मत्वम्, यथा घटं प्रति वनस्थो दण्ड स्वरूपयोग्यो भवति, यथा कारणतावच्छेदकदण्डत्वलक्षणधर्मत्वात्, फलोपधानं वा ? फलोपधानं नाम फलोत्पत्तिनियतम्-यथा घटं प्रति कपालसंयोग इति । कपालसंयोगे विद्यमानेऽवश्यं घटोत्पत्तिसम्भवात् । तथा च प्रकृते पट प्रति तन्तुसंयोगस्य कार्यकारणैकार्थप्रत्यासत्तिलक्षणसम्बन्धावच्छिन्नतन्तुसंयोगत्वेन यत्कारणत्वम्, तत्स्वरूपयोग्य, फलोपधानं वेत्याशब्य क्रमेण दूषयति-न तदवच्छिन्नेति तथा च यत्र तन्तौ पट: समवेतो नास्ति तत्रापि तन्तौ तन्तुसंयोगस्य वेष्टितसूत्रे पटस्वरूपयोग्यत्वमस्ति । तत्रापि कार्यकारणैकार्थ प्रत्यासत्तिरूपसम्बन्धवत्त्वस्य कारणतावच्छेदकधर्मस्य सत्त्वात्, तत्रासमवायिकारणव्यवहाराभावानेदं लक्षणं युक्तम् ।
द्वितीयमाशक्य दूषयति-फलोपधानमिति फलोपधानं (?)-तन्तुसंयोगनिष्ठा या कारणता तिष्ठति सा च तन्तुसंयोगत्वेनैवावच्छिद्यते । न तादृशसम्बन्धेन, प्रमाणाभावात, गौरवाच्चेति । तथा च तन्तुसंयोगेनापि फलोपधानं न सम्भवति । लक्षणं प्रत्यासत्तिगर्भं दूषयति-समवायिकारणेति तथा च समवायिकारणे या कारणता तिष्ठति सा च येन धर्मणे तत्समवधानादिनाऽवच्छिद्यते । तथाऽसमवायिकारणनिष्ठा कारणता नावच्छिद्यत इति भावः ।
असमवायिकारणस्य लक्षणान्तरं शङ्कते नन्विति कार्यस्य यो नाशस्तस्य यो जनको नाशः, तस्य यत्प्रतियोगी(गि) तदसमवायिकारणम् । सत्यन्तं च समवायिकारणेऽतिव्याप्तिवारणार्थम् । यथा घटो भवति कार्यं तस्य यो ध्वंस: तस्य जनको यो नाश:कपालद्वयसंयोगनाशः, तत्प्रतियोगित्वं कपालद्वयसंयोगस्येति । एवमात्ममन:संयोगे ध्वंसोऽपि ज्ञानसुखेच्छादीनां नाशे कारणं भवति । तत्प्रतियोगित्वं चात्ममनःसंयोगस्येति ।
इदमपि दूषयति-द्वित्वेत्यादिना तथा चापेक्षाबुद्धावतिव्याप्तिः । द्वित्वं भवति कार्यम्, तस्य यो नाशः, तं प्रति जनको भवत्यपेक्षाबुद्धिनाशः । तत्प्रतियोगित्वमपेक्षाबुद्धौ तिष्ठति । सत्यन्तमप्यपेक्षाबुद्धिश्चायमेकोऽयमेकः इति, तदनन्तरं चेमौ द्वाविति सङ्ख्याविशेषो जायते । तन्नाशस्त्वपेक्षाबुद्धिनाशेनैवेत्यात्ममनः संयोगेऽव्याप्तिश्च । कार्यनाशेत्यादि तत्र नास्ति । कार्यं भवति १. B omits वेष्टितसूत्रे. २. B करोति.
-
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org