________________
तर्कतरङ्गिणी
६१ धर्माधर्मरूपम् । तन्नाशजनकीभूतनाशप्रतियोगित्वमात्ममनःसंयोगस्य नास्ति । धर्माधर्मयोः फलेन नाशादात्ममन:संयोगनाशे विद्यमानेऽपि धर्माधर्मों तिष्ठत एवेत्यन्योन्याश्रयः ।।
स्पष्टयति-निमित्तकारणेति तथा च कुत्रचित्समवायिकारणनाशेन कार्यनाशः कुत्रचिदसमवायिकारणनाशेन कार्यनाशः । यद्यसमवायिकारणनाशेनैव कार्यनाश इत्युच्यते, तदा यत्र समवायिकारणनाशेन कार्यनाशस्तत्राव्याप्तिरेव । समवायिकारणनाशेऽप्यव्याप्तिरिति । तथा च व्यभिचारवारणार्थमुभयोरेकेन रूपेण कारणत्वं वाच्यम् । एतदेवाह-निमित्तेति तथा च समवायिकारणनाशासमवायिकारणनाशयोः कार्यनाशं प्रति निमित्तकारणेतरनाशेन जनकत्वं वाच्यम् । तेन न व्यभिचारः । एवं विवक्षिते चान्योन्याश्रयः यथातथाऽऽह-तथाचैतदिति निमित्तकारणेतरकारणनाशत्वरूपावच्छेदकस्य ज्ञाने जाते कार्यनाशं प्रत्यनेन रूपेण समवायिकारणनाशासमवायिकारणनाशयोः कारण[त्व] ग्रहो भवति । कारणत्वे गृहीते लक्षणज्ञानं, लक्षणज्ञानं च निमित्तकारणताग्रह इति लक्षणान्तरमाह-नन्विति-तथा च भावकार्यं कुत्रचिज्जायते कुत्रचिनेति । इदमेव क्वचित्कत्वं तस्य नियामकम् । किम् (मर्थम्) ? अत्रान्यस्यासम्भवेनासमवायिकारणत्वमेव । यथा यत्र तन्तुसंयोगस्तिष्ठति, तत्रैव पटो जायते । एवं पटरूपस्थलेऽपीत्यसमवायिकारणत्वं सिद्धमित्याशङ्कार्थः ।
दूषयति-येनेति येन तन्तुना सह तूरीतन्तुसंयोगो जातस्तत्रैव तन्तौ पटसमवायादुक्तनियामकसत्त्वेन तूरीतन्तुसंयोगेऽतिव्याप्तिः ।
__ मध्ये समाधत्ते-तरीतन्तुसंयोगस्येति तथा च तुरीतन्तुसंयोगो यथा तन्तुषु तिष्ठति तथा च तूर्यामपि पटोत्पत्तिः स्यादुक्तनियामकसत्त्वात् । तेन तूरीतन्तुसंयोगे नातिव्याप्तिः । यद्यप्यनया विवक्षया तूरीतन्तुसंयोगे नातिव्याप्तिः, तथाप्यात्ममनः-संयोगेऽव्याप्तिमाह-मन:संयोगस्येति तथा चात्ममनःसंयोगो मनस्यापि विद्यते । तत्रापि सुखोत्पत्तिः स्यात्, उक्तनियामकसत्त्वात् । तथा चात्ममनःसंयोगे लक्षणाव्याप्तिः । ननु मनोनिरूपितसंयोगस्यैव नियामकत्वेन नाव्याप्तिः । मनोनिरूपितसंयोगस्तु आत्मन्येवास्ति । मनसि चात्मनिरुपितः संयोगः । तथाहि यथाऽऽत्मसंयोगि मन : इति प्रतीति जायते तथा मनः संयोगि मनः इति प्रतीति[न]जायते । तेन मनोनिरूपितसंयोगित्वं मनसि नास्तीत्याम:मन संयोगे नाव्याप्तिरिति लक्षणं सुस्थमेव।
मनोलक्षणे दूषणान्तरमाह-कार्येति तथा च कार्योत्पत्ताविदमेव नियामकम् । यथा यत्र घटादिप्रागभावस्तिष्ठति, तत्रैव घटोत्पत्तिरित्येव नियामकम् । ननु प्रागुक्तघटे त(तु) नियामकमसमवायिकारणं सिध्यति तथा च पूर्वमुक्तं यत्रासमवायिकारणं तत्रैव भावकार्योत्यत्तिरिति १. B -चार इति. २. In both A and B it is तथा चैवेति. ३. B वर्तते.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org