________________
६२
तर्कतरङ्गिणी किमर्थं प्रागभावस्यैव कार्योत्पत्ति नियामकत्वादिति भावः ।
लीलावतीकारमतमाशक्य दूषयति-यत्त्विति तथा चादृष्टभिन्नत्वं सति समवायिकारणप्रत्यासन्नमवधृतामर्थ्यमिति तन्मते लक्षणम् । तद्रूषयति-तदिति यथाश्रुतमदृष्टभिन्नत्वे सतीत्यादिकमेव तूरीतन्तुसंयोगेऽतिव्याप्तं यदि च लक्षणेऽदृष्टभिन्नत्वे सति समवायिकारणमात्रप्रत्यासन्नत्वमवधृतेत्यादिकं तदाऽतिव्याप्तिवारणेऽपि, आत्ममनःसंयोगेऽव्याप्तिरेव । आत्ममनः संयोगस्यापि समवायिकारणमात्रप्रत्यासन्नत्वं नास्ति । समवायिकारणातिरिक्तस्यापि विद्यमानत्वात् । तथा च मात्रपदमपि न दातव्यम् । तेन तूरीतन्तुसंयोगेऽतिव्याप्तिस्तदवस्थैवेति । तथा च तूरीतन्तुसंयोगेऽतिव्याप्तिवारणार्थं विवक्षान्तरमाह निमित्तकारणभिन्नत्वमिति विधाय 'दूषयतिअन्योन्याश्रय इति निमित्तकारणभिन्नत्वज्ञाने जाते सति, असमवायिकारणत्वज्ञानम्', असमवायिकारणत्वज्ञाने सति निमित्तकारणेतरत्वज्ञानमिति ।
नन्वदृष्टस्यापि लक्षणत्वेन तत्रोक्तलक्षणगमनमिष्टमेवेति । ततोऽदृष्टभिन्नत्वपदं न देयमेवेति मनसि कृत्वाऽऽह यद्यपीति-नन्वदृष्टस्यासमवायिकारणत्वेऽदृष्टसमवायिकारणमिति प्रयोग: स्यादिति चेत्, तत्राह-पूर्वेषामिति शिष्टानामदृष्टसमवायिकारणमिति प्रयोगो नास्तीत्यदृष्टं न लक्षणमित्याशयः । तथा चादृष्टेऽतिव्याप्तिवारणार्थमदृष्टभिन्नत्वपदं दातव्यमेवेति भावः । तत्रैवेति यत्र शिष्टानामसमवायिकारणत्वव्यवहारो वर्तते, तत्रैवासमवायिकारणत्वं प्रतीयते इत्यर्थः ।
नन्वदृष्टभिन्नत्वे सतीदं विशेषणं यथाऽदृष्टवारणार्थं दत्तं तथा ज्ञानत्वे सति, इच्छाभिन्नत्वे सतीत्यादिकमपि नेयम्, यदि वाऽदृष्टलक्ष्यमेवेति चेत् तत्राह अपसिद्धान्तादिति तथा चेदं लक्षणमदृष्टादावतिव्याप्त्या दूषितमित्यर्थः । ननु तूरीतन्तुसंयोगस्याप्यसमवायिकारणत्वमिति चेत् तत्राह-तूरीति तथा चासमवायिकारणनाशेन कार्यनाश इति नियमात्" तूरीतन्तुसंयोगनाशानन्तरं पटनाशः स्यात् । तथा च तूरीतन्तुसंयोगो नासमवायिकारणमित्यर्थः ।
न्यायमते लक्षणदूषणं दत्वा मीमांसकमतमाह शक्तीति कार्यजनकीभूतः शक्तिविशेषः पदार्थान्तरमवयवसंयोगस्थानीयोऽसमवायिकारणपदवाच्यः । स च विशेषः कार्यचोनेय इति तन्तुसंयोगमात्रे नातिव्याप्तिः ।
बौद्धमतमाह-कुर्वदूपत्वमिति यथा कुशूलस्थं बीजं नाङ्कुरात्मकम्, कुर्वद्रूपत्वाभावात् । कूर्वद्रूपत्वं नामाङ्करजनकत्वम् । तथा च कुशूलस्थं बीजमङ्करजनकं न भवति । तदेव बीजं १. Both in A and B विधाय दूषयति comes before 'निमित्तकारणभिन्नत्वमिति' but as this does not give proper comprehension of the context, this change has been made. २. B कारणज्ञानं. ३. B वेति. ४ B नियमेन.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org