________________
तर्कतरङ्गिणी
क्षेत्रसम्बन्धेनाङ्कुरजनकमिति चेत्, न । पूर्वबीजस्य नष्टत्वादन्योत्पत्तेः कूर्वद्रूपत्वमेवाङ्कुरजनकजनकत्वमिति । न च प्रत्यभिज्ञानं बाधकमिति वाच्यम् । यथा न्यायमते सच्छिद्रे घंटे घटान्तरोत्पत्तावपि सोऽयं घट इति प्रत्यभिज्ञा फलबलेन भ्रान्ता । तथाऽत्रापीतिसमर्थनात् । नैयायिकमते लक्षणासम्भवेन किं जातमित्यत आह-तस्मादिति-भेदकाभावादिति निमित्तकारणसमवायिकारणाभ्यां' भिद्यत इति । तथा च कारणद्वयमेवेत्याह द्वे एवेति तथा च त्रिविधं कारणमित्युदेशानुपपत्तिरिति भावः ।
६३
ननु यदा कारणद्वयमेव तदा यथा दण्डनाशे सति घटनाशो न भवति तथा कपालद्वयसंयोगनाशानन्तरमपि घटनाशो न स्यादिति । तथा च पटेऽप्येवम् । न च तत्र समवायिकारणनाशेनैव घयदिनाश इति वाच्यम् । तथापि परमाणुद्वयसंयोगनाशानन्तरं द्वयणुकनाशो न स्यात् । तत्र च समवायिकारणनाशेन द्वयणुकनाश इति वक्तुमशक्यः (म्) । तथा च द्रव्यनाशेऽसमवायिकारणनाश एव नियामकः । न तु निमित्तकारणनाशः । भवन्मते तु संयोगो निमित्तकारणमेव । तथा च तन्नाशे सति पटनाशो न स्यात् इत्याशङ्क्य दूषयति अपेक्षाबुद्धीति निमित्तकारणम्, तन्नाशादेव बुद्धिनाशः, तथा तन्तुसंयोगलक्षणनिमित्तकारणनाशादेव पटनाश इति नासमवायिकारणम् । ननु यदि प्रत्येकमपेक्षाबुद्धिनाशत्वादिना यदि (?) द्वित्वादिकार्यनाशकता स्वीक्रियते तदाऽनुगम इत्याह- निमित्तकारणेतरेति - अनुगतो धर्मस्तु निमित्तकारणेतरनाशत्वं भावजन्यकार्यनाशजनकेऽस्तीत्यनुगतम् । यथा कपालद्वयसंयोगनाशे घटनाशे जनकीभूते निमित्तकारणेतरकारणनाशत्वमनुगतं तिष्ठति यद्यनेन रूपेण कार्यनाशकता न स्वीक्रियते तदानुगम इति भावः । अष्टापत्तिं करोति - इष्टत्वादिति ।
ननु यदि कारणतावच्छेदकमेकमेकम्, तदा व्यभिचारः, यथा भावकार्यनाशत्वेन कार्यतायां तन्तुसंयोगनाशत्वादिना कारणतायां वाच्यायां तन्तुसंयोगनाशव्यतिरेकेणापि कपालद्वयसंयोगनाशादिना भावकार्यनाशाद् व्यभिचार स्फूट एवेति । व्यभिचारमुद्धरति - अनुगतस्येति-कार्यनाशेऽनुगतधर्मस्यासम्भवेनाननुगत एव धर्मः स्वीकार्यः । तथा च न व्यभिचारः । यथा नाशकतावच्छेदकमेकं नास्ति, तथा नाश्यतावच्छेदकमेकं नास्ति । व्यभिचारस्तु तदा स्यात् यदा नाशकतावच्छेदकधर्मोऽनेकः स्यादथ च नाशकतावच्छेदकधर्मो एकः स्यात् । न चैवं प्रकृते तेन [न] व्यभिचारः ।
केचिदिति समादधुरिति शेषः । नानार्थ इति यत्र च शक्यतावच्छेदकमनेकं शक्ततावच्छेदकमेकं तत्रैव नानार्थता । यथा 'हरि' शब्दे । अत्र शक्यतावच्छेदकमिन्द्रत्वकृष्ण
१. Pl. add असमवायिकारणस्य भेदकं किञ्चिन्नास्तीति नासमवायिकारणाभ्यां २. A निवेशयति. ३. B -नुगमनम् ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org