________________
६४
तर्कतरङ्गिणी त्वसूर्यत्वादिकम्, शक्ततावच्छेदकत्वं तु [हरि] त्वमेकमेवेति 'हरि' पदस्य नानार्थता । असमवायिकारणस्य शक्यतावच्छेदकं नानावयवसंयोगत्वम्, कुत्रचिदवयवरूपत्वम् कुत्राप्यवयवरूपत्वविभागत्वम्, चिदवयवकर्मत्वमित्याद्यनेकं शक्तततावच्छेदकं चैकमेवासमवायिकारणत्वम् । 'अ'कारोत्तर'श'कारोत्तर व'कारोत्तराद्युत्तरवर्णत्वम् ।।
फलितमाह-तथा चेति द्रव्यासमवायिकारणलक्षणमवयवसंयोगत्वम् । गुणासमवायिकारणलक्षणमवयवगुणत्वमेव । अक्षादिवदिति यथा अक्षादिपदं नानार्थं भवति, तच्छक्यतावच्छेदकस्यानेकत्वात्तथाऽसमवायिकारणपदस्यापि शक्यतावच्छेदकं नानार्थत्वान्नानार्थत्वम् । स्वस्पसम्बन्धविशेष इति यथा पटं प्रति तन्तुद्वयसंयोगोऽसमवायिकारणं भवति तत्र संयोगानतिरिक्तस्तन्तुद्वयसंयोगरूपस्तादात्म्यरूप: स्वरूपसम्बन्धविशेषोऽसमवायिकारणत्वं सम्बन्धान्तरमन्तरेण विशिष्टधीजनकत्वमेव स्वरूपसम्बन्धः । स्वरूपस्य सम्बन्धत्वे प्रमाणमभाव एव । यथा भूतले घटाभावपतीतिर्यदा जायते, तदा भूतलेन सममभावस्य स्वरूपसम्बन्ध एव । भूतलाभावयोः तृतीयसम्बन्धासम्भवेन द्वयो : स्वरूपमेव-सम्बन्ध एव । अन्यथा सम्बन्धव्यतिरेकेण विशिष्टप्रतीतिर्न स्यात् । तेन प्रकृते पटं प्रति तन्तुद्वयसंयोगोऽसमवायिकारणम् । असमवायिकारणत्वं तु संयोगस्य स्वरूपमेव। एवं कर्मादिस्वरूपमेवान्यासाधारणधर्मसम्बन्धाभावात् । सम्बन्धान्तरकल्पनेऽनवस्था स्यात्।
अखण्डवत्यसमवायिकारणत्वमखण्डम् । अखण्डो धर्मस्तत्रैव स्वीक्रियते यत्र जातौ किञ्चिद बाधको भवेत् । यथाऽभावत्वजातावभावे समवायाभावात् । अभावत्वमखण्डं नञः शक्यतावच्छेदकम् । मणिकारमते तु नबः शक्यतावच्छेदकं संसर्गाभावत्वमेव । तमन्योन्याभावत्वमेवेति द्वयमेव । अत्र हेतुमाहुः-सखण्डाविति यत्समवायिकारणप्रत्यासन्न-मित्यादिरूपस्य सखण्डोपाधेनिरस्तत्वादिति । जातिभिन्नत्वे सत्यनेकपदार्थवृत्तित्वमखण्डोपाधित्वं अनेकपदार्थघटितधर्मत्वं सखण्डत्वम् । यथा कम्बुग्रीवादिमत्त्वम् । अखण्डोपाधित्वं त्वभावत्वात् ।
नन्वसमवायिकारणं जातिरस्त्विति चेत्, न । संयोगत्वेन सङ्करात् । तथाहि संयोगत्वं घटसंयोगेऽस्ति । तत्रासमवायिकारणत्वं नास्ति । असमवायिकारणत्वं च तन्तुरूपादावस्थिता । "तत्र संयोगत्वं नास्ति । उभयं च तन्तुसंयोग्वस्तीति सङ्करात् ।
"इति वादे चक्रचूडामणिजितानेकवादिवृन्दवाचनाचार्य श्रीगुणरत्नविर चित]गोवर्धनी टिप्पणे-असमवायिकारणप्रकरणम् ।
१. Perhaps the word अश्व is implied here. २. B omits संयोगस्य. ३. PI. add अनेक पदार्थघटितधर्मत्वंसखण्डत्वम् । यथा कम्बग्रीवादिमत्त्वम् अखण्डोपादित्वं. ४. B omits the reading between तत्र....नास्ति. ५. B इति-असमवायिकारणलक्षणव्याख्या ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org