________________
६५
तर्कतरङ्गिणी (VIII) निमित्तकारणम् ।
निमित्तकारणलक्षणमाह-'यत्कार्येति दण्डादीनामपीति स्वकीयरूपं प्रति स्वसंयोगादीन्प्रत्यपि समवायिकारणत्वात् । चक्रेति भ्रमिशब्देन चक्रिकया संयोगविभागयोरसमवायिकारणं भवति । तथा च यथाश्रुते निमित्तकारणे दण्डादावव्याप्तिरिति मनसि कृत्वाऽऽह-सामान्यत इति समवायिकारणासमवायिकारणभिन्नं यत्कारणमिति सामान्येन यदुच्यते तदा त्रयाणां परस्परं भेदो न सिध्येत् । उक्तरीत्या निमित्तकारणस्यापि क्वचित् समवायिकारणत्वादित्यर्थः। इदमिति यत्कार्ये इत्यादिरूपम् । अभावनिमित्तेति-अभावशब्देन ध्वंसो ग्राह्यः । अन्यथाऽत्यन्ताभावस्य निमित्ताभावादसङ्गतिः स्यादिति भावः। तथा च ध्वंसस्य यन्निमित्तकारणं घटदिस्तत्र ध्वंसस्य समवायिकारणाद्यप्रसिद्ध्यात्(-सिद्धेः) इत्यभिन्नत्वं वक्तुमशक्यम् । प्रसिद्धस्यैव भेदसम्भवात् । यथा प्रसिद्धस्यैव घटादेः पटे भेद उपपद्यते, न चाप्रसिद्धस्याकाशपुष्पादेरिति तथा प्रकृतेऽपि घटध्वंसनिमित्तकारणं घटध्वंससमवायिकारणासमवायिकारणभिन्नमिति वक्तु मशक्यम् । प्रतियोगिप्रसिद्धरेवाभावकारणत्वादिति भावः भावनिमित्तेति भावस्यघटादेः यत्समवायिकारणासमवायिकारणभिन्नं तदेव भावनिमित्तकारणमिदम् । भावनिमित्तकारणस्यैवेदं लक्षणम्, नेदमभावनिमित्तकारणस्येति । ननु सर्वनिमित्तसाधारणं लक्षणं न जातमिति चेत्, तत्राह-अभावे त्विति ध्वंसं प्रति तु यन्निमित्तकारणं घटादिलक्षणम्, तस्य लक्षणं चानन्यथासिद्धनियतपूर्ववर्तित्वमेव । अभावानियतपूर्ववर्तित्वमेवेत्यर्थः ।
इदं दूषयति-अभावकारणेति तथा चाभावनिमित्तमित्यस्मिन्शब्दे उच्चार्यमाणेऽभावकारणत्वमित्येव बोधो भवतु । तयोरभेदस्योक्तत्वात् । वस्तुतस्तु अभावनिमित्तमिति वाक्येनाभावकारणकत्वप्रकारके' बोधो न जायते । तथाऽननुभवात् । यथा प्रमेयमिति पदेन घटत्वप्रकारको बोधो न भवति किन्तु प्रमेयत्वप्रकारक एवेति, तथा प्रकृतेऽप्यभावनिमित्तपदेनाभावकारणकत्वप्रकारको बोधो न जायते । भवन्मते चैतादृशी प्रतीतिः स्यादेव । यथा घटपदेन कलशत्वप्रकारकोऽपि बोधः, घटकलशयोरभेदात् । समांधत्ते-प्रकृतकार्येति प्रकृतं यत्कार्यं ध्वंसरूपम्, तन्निष्ठस्तदधिकरणको यो प्रतियोग्यनुयोगिभावलक्षणः सम्बन्धस्तस्य यावाश्रयौ तयोर्मध्ये एकतरस्य यत्समवायिकारणमसमवायिकारणं च तद्भिनत्वं विवक्षितम् । वर्तते चेदं घटध्वंसनिमित्तघटे । यथा प्रकृतकार्यो भवति घटध्वंसरूपस्तत्र घटेन समं सम्बन्धो भवति प्रतियोग्यनुयोगिभावसम्बन्धः । यथा प्रतियोगी घटः, अनुयोगी भवति घटध्वंसः। घटनिरुप्यो हि घटध्वंस इत्यनुयोगित्वं निरुप्यत्वम् । अनयोर्यो सम्बन्धः, स प्रतियोग्यनुयोगिभाव एव । तस्याश्रयो
१. A यत्कार्यमित्यादि. २. B omits अपि, ३. B -ऽभावत्वमित्येव. ४. B -प्रकारकबोधो. ५. B तथापि, ६. B कारणत्व..
तर्क.-९
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org