________________
६६
तर्कतरङ्गिणी यथा घटध्वंसो भवति तथा घटोऽपीति सम्बन्धस्योभयवृत्तित्वात् । सम्बन्धाश्रयस्य घटस्य समवायिकारणं भवति कपालम्, असमवायिकारणं भवति कपालद्वयसंयोगः, तद्भिन्नत्वं घटे वर्तते ।
ध्वंसनिमित्तकारणे लक्षणं योजयति-तच्चेति तत्रेति घटध्वंसे घटलक्षणप्रतियोगिनः समवायिकारणादिसत्त्वात् 'कपालतत्संयोगयोः सत्त्वात् तद्भिन्नत्वं घटेऽस्तीति शेषः । दूषयति तन्नेति संयोगिन इति तथा च यत्र घटपटयोः संयोगो वृत्तस्तदनन्तरं घटदिक्रियादिना घटपटयोः संयोगनाशः जातः । तस्य नाशस्य निमित्तकारणं यथा संयोगस्तथा संयोगाधिकरणं घटपटावपि । तथा च तत्र संयोगाधिकरणे घटे संयोगध्वंसनिमित्तकारणेऽव्याप्तिः । तथाहि प्रकृते कार्यो भवति घटपटसंयोगध्वंसः। तस्य प्रतियोगी भवति तत्संयोगः, अनुयोगी भवति संयोगध्वंसः । संयोगध्वंसस्याधिकरणमपि घटादिकमनुयोग्येव । तथा चैतेषां घटसंयोगध्वंसः, तदधिकरणानां यो सम्बन्धः सप्रतियोग्यनुयोगिभावलक्षणः । तदाश्रयो भवति घटदिः तद्भिनत्वं घटे नास्ति । घटस्य घटपटसंयोगं प्रति समवायिकारणत्वात् । तेन समवायिकारणभिन्नत्वाभावादव्याप्तिः ।
___कण्टकमुद्धरति-न चेति । तथा च घटपटसंयोगध्वंसं प्रति संयोग एव निमित्तम् । न तु घट इतीष्टापत्तिः। घटस्यापि घटसंयोगध्वंसं प्रति निमित्तकारणतां व्यवस्थापयति घटे संयोगप्रतीत्या घटसंयोगध्वंसं प्रति घटस्याप्यधिकरणत्वेन निमित्तत्वमस्तीत्यर्थः । यथेदानी घट उत्पन्न इति प्रतीत्या "कालस्याधिकरणत्वेन घटं प्रति निमित्तकारणत्वं तथाऽत्रापीति भावः । तथा च घटपटसंयोगध्वंसनिमित्ते घटेऽव्याप्तिः ।।
इदं लक्षणं दुष्टम् । तेन समवायिकारणासमवायिकारणभिन्नत्वे सति यत्कारणं तन्निमित्तकारणमिति जन्यभावनिमित्तकारणस्यैवेदं लक्षणम् । अभावनिमित्तस्य तु अभावं प्रत्यनन्यथासिद्धनियतपूर्ववर्तित्वमेवेति, न चाभावनिमित्तकारणत्वयोरभेद इति वाच्यम् । अत्रेष्टापत्त्या समर्थयति-अभावेति तथा चानयोरभेदस्वीकारेऽपि दोषो नास्तीत्यर्थः । इदं तु लक्षणं समवायिकारणासमवायिकारणभिन्नत्वे सति कारणत्वमिति लक्षणं-भावनिमित्तस्येवेत्यर्थः ।
। [७] मीमांसककृतप्रमाणलक्षणस्य निराकरणम् ।
मीमांसकमत मुद्भाव्य दूषयति-यत्त्विति यथाश्रुते तु अनधिगतो योऽर्थः तत्त्वज्ञानाविषयीभूतो योऽर्थः, तस्य यो (यत्) अधिगन्तृज्ञानं करणं तत्प्रमाणम् । तेन च भ्रमकरणे दोषेऽप्येतल्लक्षणस्य सत्त्वादि(द) तिव्याप्तिरित्यन्यथा व्याचष्टे-अगृहीतेति तेन यथार्थपददानात
१. B कपालवत्त्वसं. २. B तन्नाशस्य. ३. B om its यथा. ४. B कालस्याप्यधि.. ५. B om its तु. ६. B मीमांसकमेवमु०. ७. B अधिगन्ताज्ञानं. ८. B येन स्वयथार्थ..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org