SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ तर्कतरङ्गिणी भ्रमकरणे दोषे नातिव्याप्तिरित्यर्थः । ननु स्मृतावतिव्याप्तिवारणार्थमगृहीतग्राहित्वमिति चेत्, तदापि स्मृतिभिन्नत्वे पदमेव लाघवाद्दातव्यम् । तदपेक्षया लघुत्वादावश्यकत्वाच्च । अगृहीतग्राहितपददानेऽपि स्मृतिभिन्नपदं दातव्यमेव । अन्यथा स्मृतावप्यपगृहीतयथार्थज्ञानत्वं वर्तते । यदा घटोऽयमित्यनुभवो जातस्तदनन्तरं स्वजन्यसंस्कारद्वारा तस्यैव स्मरणं भवति । तस्य चागृहीतयथार्थज्ञानत्वं वर्तत एव । ननु पूर्वानुभूतस्यैव स्मरणात्कथमगृहीतग्राहित्वमिति चेत् न । अनुभवाधिकरणक्षणविशिष्टभिन्न एव पदार्थः स्मृत्यधिकक्षणविशिष्टभिन्न एव पदार्थ: इत्यगृहीतयथार्थज्ञानत्वं स्मृतावप्यस्तीति "स्मृतिभिन्नत्वपदं दातव्यमेवेत्याह-स्मृतीति तेषामिति क्रियादीनां योग्यतया प्रत्यक्षतया तद्गतो यो भेदः - यथा क्रियाविशिष्टक्षणविशिष्टो घटः । तस्य भेदस्तु विभागक्षणविशिष्टे “घटेऽस्ति । एवं भेदोऽपि योग्य एव । तथा च मया एकदैवोत्पलशतभिन्नमिति यौगपद्याभिमानो न स्यात् । वस्तुगत्यताऽयमभिमानः क्षणानां सूक्ष्मत्वाज्जायते इत्यभिप्रायः । शङ्कते नन्विति तथा च प्रकृते भेद एवास्ति । तस्य योग्यतयाऽपि सामग्रीविरहात् इन्द्रियसन्निकर्षाद्यभावात् भेदज्ञानं नास्तीति चेत्, तदा धारावाहिकं यत्ज्ञानं तद् भ्रमरूपं स्यादित्यर्थः । क्षणस्येति तथा च क्षणानामयोग्यत्वं सर्वमतसिद्धम्, तेन पूर्वं यदुक्तं क्रियाक्षणविशिष्ट घट योग्यस्तस्य भेदोऽपि योग्य इति तदसत् । क्षणस्यापीन्द्रियत्वात् । तत्क्षणविशिष्टो घटोsयोग्यस्तद्भेदोऽप्योग्यस्तेन योग्यताभावान्न भ्रम इति भावः । [८] ॥ प्रत्यक्षनिरूपणम् ॥ नातिप्रसक्तिरिति तथा चात्मादावानु[भ]वत्वव्याप्येत्यादि प्रमाणलक्षणेनातिव्याप्तिर्वारितेत्यर्थः । इन्द्रियत्वेनेति - नन्विन्द्रियत्वं न जाति:, जलपृथिवीत्वेन सङ्करात् नाप्युपाधि:, तदनिर्वचनादिति चेत्, न सखण्डोपाधिरेव । जन्यसाक्षात्कारजनकतावच्छेद- कत्वेनेन्द्रियत्वमुपाधिः सिध्यति । तथा चानेन रूपेण यत्ज्ञानं प्रति कारणत्वं साक्षात्कारिणी प्रमेत्युच्यतेऽनुमित्यादौ तु मनसः कारणत्वेऽपि नानेन रूपेण, किन्तु तत्र मनस्त्वेन रूपेण कारणताजन्यज्ञानत्वावच्छ्निं प्रति तु मनसः कारणत्वात् । तज्जन्यत्वस्येति इन्द्रियत्वेन रूपेणेन्द्रियजन्यत्वस्य विवक्षितत्वादनुमित्यादौ तु मनस्त्वेन रूपेण मनसः कारणतेति न तत्रातिव्याप्तिरिति भावः । (I) निर्विकल्पसविकल्पप्रत्यक्षम् । ६७ सम्बन्ध यत्र ज्ञाने विशेष्यविशेषणयोः सम्बन्धो न भासते - तन्निर्विकल्पम् । १. B भ्रमे नातिव्या. २. B यावत्. ३ B -नुभवस्यैव. ४. Bomits स्मृति. ५. B घटे एव. ६. B प्रकृतेऽभेद. Jain Education International 2010_05 1 For Private & Personal Use Only www.jainelibrary.org
SR No.002581
Book TitleTarkatarangini
Original Sutra AuthorN/A
AuthorGunratna, Vasant G Parikh
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy