________________
६८
तर्कतरङ्गिणी
तथा च यत्र ज्ञाने घटो भासते, घटत्वं च भासते, परं घटत्वनिरुपितः समवायो न भासतेऽयं घट इति ज्ञान एव घटत्वसम्बन्धभानात् ।
ननु घटघटत्वज्ञाने' तत्र किं प्रमाणमिति चेत्, भविष्यत्सविकल्पमेव प्रमाणम् । तथा विशिष्टज्ञानं प्रति विशेषणज्ञानं कारणम्, यथा भूतले घट इति विशिष्टज्ञानं प्रत्युत्पादकसामग्री । यथा विशेषणज्ञानं घटत्वज्ञानम्, विशेष्यमिन्द्रियसन्निकर्षो घटेन्द्रियसन्निकर्षः, तदुभयासंसर्गाग्रहो विशेषणविशेष्यो भयथा संसर्गाग्रहो विशेष्याधिकरणयोरसंसर्गाग्रहश्च विशेष्यं घटाधिकरणं भूतलादिस्तयोरसंसर्गाग्रहो विशिष्टबुद्धि प्रति कारणमित्यर्थः । असंसर्गशब्देन संसर्गाभाव उच्यते । सम्बन्धाभाव इति यावत् । तस्य सम्बन्धाभावस्याग्रहो नाम ज्ञानाभाव इति । तथा च संसर्गाभावज्ञानाभावो संसर्गाग्रहपदेनोच्यते इत्यर्थः । विशेषणस्य सम्बन्धाभावस्तस्याग्रहो नाम ज्ञानाभाव इति यावत् । तथा च विशेष्यविशेषणोभयसम्बन्धाभावः ज्ञानाभावकारणं पूर्वविशिष्टबोधे विशेषणविशेष्ययोरसंसर्गाग्रहोऽपेक्ष्यते ।
ननु विशेषणज्ञानं यथा विशिष्टबोधे कारणं तथा विशेष्यज्ञानमपि तत्र कारणं भवत्विति चेत्, [न] विशेष्यस्य पूर्वमनुपस्थितत्वात् । यथा 'दण्डी पुरुष : ' - इत्यत्र दण्डज्ञानं यथापूर्वं वर्तते, तथा “पुरुषज्ञानं नास्ति । कथमिति चेत्, दण्डज्ञानानन्तरं पुरुषेन्द्रियसन्निकर्षो वृत्तः । पुनः सन्निकर्ष क्षण एव 'पुरुषे दण्डासंसर्गाग्रहस्तदनन्तरं 'विशिष्टबुद्धिर्जायते । यतः पुरुषेन्द्रियसन्निकर्षाननन्तरं पुरुषज्ञानक्षणे एव विशिष्टबुद्धिसम्भवात् पुरुषज्ञानं न कारणम् ।
ननु विशेषणसन्निकर्षोऽपि तत्र कथं न कारणमिति चेत्, न । प्रमाणाभावात् । विशेषणसन्निकर्षव्यतिरेकेणापि विशिष्टबुद्धेर्जायमानत्वात् । दण्डस्मरणमपि कारणम्, कदाचिदनुभवोऽपि कारणम् कदाचिद्विशेषणसन्निकर्षोऽपि कारणम्, परमावश्यकसन्निकर्षो नास्तीति विशेषणज्ञानमेव कारणम् । ननु संसर्गाग्रहशब्देन संसर्ग एव सम्पन्न इति चेत्, न । 'असंसर्ग' इति न तत्रासम्बन्धाभावो बोध्यते । 'अग्रह' इति च' नञा ज्ञानाभावो बोध्यते । तेन प्रकृतोऽर्थः । नञ्द्वयेन प्रकृतार्थः तत्रैव बोध्यते यत्र प्रथमनञर्थेन समं द्वितीयनञर्थान्वयो भवति । यथा भूतले घट नास्तीति-प्रथमनञर्थो भवति घटाभावस्तेन समं द्वितीयनञर्थस्याभावलक्षणस्यान्वयात् । प्रकृते च न तथा । अत्र प्रथम नञर्थो भवति सम्बन्धाभावः, द्वितीयनञर्थो भवत्याद्याभावः, तस्य ज्ञानेनैव सममन्वयात् । तेन नात्र प्रकृत्यर्थान्वयः ।
ननु विशेषणज्ञानविशिष्येन्द्रियसन्निकर्षयोरेव कारणत्वमस्त्वति चेत्, न । यदा घटत्वज्ञानं १. B भाने. २. B ग्रहे. ३. B ग्रह एव नोच्यते ४ B -द्वितीयलक्षणे. ५ B -ज्ञानमस्ति ६. B सन्निकर्षेण एव. ७. B विशिष्टपुरुषे. ८. B विशिष्टः जायते ९. Bomits च.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org