________________
तर्कतरङ्गिणी
६९
वर्ततेऽथ च घटेन सममिन्द्रियसन्निकर्षोऽप्यथ च घटे घटत्वासंसर्गाग्रहो - यथाऽत्र घटत्वं नास्तीति । तदनन्तरं घटत्वविशिष्टबुद्धिर्भवतु, विशेषणज्ञानविशेष्येन्द्रिययोः सत्त्वात् । तदनुरोधेन विशेषणासंसर्गाग्रहस्यापि कारणत्वं वक्तव्यम् । प्रतिबन्धकाभावस्य कारणत्वात् । प्रकृते प्रतिबन्धकं च विशेषणासंसर्गाग्रहः । यथा 'भूतले घट' इत्यत्र विशेषणं भवति घटत्वम्, विशेष्यो भवति घटः । घटे हि यदा घटत्वस्यासंसर्गग्रहो भवति - सम्बन्धाभावज्ञानं भवति, तदा घटत्वविशिष्टधी न जायतेइत्यसंसर्गस्य प्रतिबन्धकत्वं विशिष्टज्ञानं प्रति । इति तदभावकारणम्, यथा दाहं प्रति मण्यभावः ।
ननु विशेषणज्ञानस्य कारणत्वे किं प्रमाणमिति चेत्, विशिष्टबुद्धिरेव प्रमाणम् । विशेषणज्ञानाभावे तदनुदयात् । न च विशेष[ण] सन्निकर्षव्यतिरेकेणैव विशिष्टज्ञानविलम्ब इति वाच्यम्। एवं च यदा विशेषणेन्द्रियसन्निकर्षविशेष्येन्द्रियसन्निकर्षौ स्तः, तदा समूहालम्बनात्मकमेव ज्ञानं जायते । यथा दण्डपुरुषसंयोग इति, यथा विशिष्टबुद्धौ विशेषणविशेष्यसंसर्गाणां भानं तथाऽत्रापि त्रयाणां भानम् ।
1
ननु समूहालम्बनविशिष्टज्ञानयोः को भेद इति चेत्, समूहालम्बने च सर्वेषां विशेष्यत्वेन भानम् । विशिष्टबुद्धौ च परस्परं विशेषणविशेष्यत्वेनैव । यथा दण्डी पुरुष इत्यत्र दण्डो विशेषणतया भासते, पुरुषो विशेष्यतया भासते । तयोः सम्बन्धस्तु संसर्गमर्यादया भासते । सम्बन्धोपरिकश्चिद्धर्मःप्रकारो-न' भवतीत्यर्थः । समूहालम्बने तु नैवम् । यथा २' दण्डपुरुषसंयोग' इत्यत्र सर्वेषां विशेष्यत्वेनैव भानात् । ततो विशिष्टबुद्धिं प्रति त्रयमावश्यकमिति । तथा च यदि निर्विकल्पं नाङ्गीक्रियते तदा दैववशात् यत्र घटत्वास्मरणे सति घटेन समं सन्निकर्षो वृत्तः । तदनन्तरं निर्विकल्पकं न जायते । भवतां मते तदनन्तरं विशिष्टबुद्धि र्न स्यात् पूर्वं घटत्वरूपविशेषज्ञानाभावात् । अस्माकं मते तु घटेन्द्रियसन्निकर्षानन्तरं ॰घटघटत्वयोरेकं निर्विकल्पकं जायते, परं घटत्वसमवायो न भासते । तृतीयक्षणे विशिष्टज्ञानं घटोऽयमिति समवायो न भासते । तद्भाने च सविकल्पकत्वापत्तिः । अयमत्र प्रघट्ट :घटत्वनिर्विकल्पके घटेन्द्रियसन्निकर्षानन्तरं तृतीयक्षणे विशिष्टज्ञानं घटोऽयमितिरूपं प्रमाणम् । यथा प्रथमक्षणे घटेन्द्रियसन्निकर्षः, द्वितीयक्षणे घटघटत्वयोर्निविकल्पकं तदनन्तरं तृतीयक्षणे विशिष्टज्ञानमेव न स्यात् । पूर्वमनुपस्थितस्य घटत्वरूपस्याप्रकारकत्वात् । तस्य च लक्षणमगृहीतासंसर्गधर्मधर्मिविषयैकज्ञानत्वम् । विशिष्टज्ञानत्वमेकपदं यदि चोच्यते तदा यत्र स्मरणानुभवात्मकं ज्ञानद्वयं जायतेयथा गुरुमते- 'इदं रजतम् ' - इति ग्रहणस्मरणात्मकं ज्ञानद्वयं रजतत्वस्य स्मरणमिदं त्वस्यानुभव इति । न्यायमते त्वेकमेव ज्ञानम् । धर्मधर्मिविषयकपदं चेन्नोच्यते तदा समूहालम्बनेऽतिव्यप्तिः । तत्रापि धर्मिविषयत्वमस्त्येव । सर्वेषां धर्मित्वेन भानात् । तद्वारणाय धर्मेति ।
१. B कश्चित्प्रकारे । २. B omits संयोग. ३. B omits इति. ४. B between घटघटत्व.... घटत्वसमवायो न भासते.
Jain Education International 2010_05
For Private & Personal Use Only
om its
the reading
www.jainelibrary.org