SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ७० तर्कतरङ्गिणी ननु धमिविषयैकैकज्ञानत्वमित्येवास्त्विति चेत्, तदा निविकल्पेऽतिव्याप्तिः । तत्रापि घटत्वादेविषयात् । निर्विकल्पे यद्यपि घटः स्वरूपसन् भासते, तदपि धर्मत्वेन रूपेण न भासते । तत्सम्बन्धविषयत्वात् । अगृहीतासंसर्गपदं तु समूहालम्बनेऽतिव्याप्तिवारणार्थम् । यथा 'दण्डपुरुषौ' इत्यत्र दण्डो भवति धर्मः, पुरुषो भवति धर्मी, तद्विषयत्वं च समूहालम्बनेऽस्तीति तद्वारणायागृहीतेत्यादीति न गृहीतोऽसंसर्गः । यत्रैतादृशं धर्मधर्मिविषयैकज्ञानं यथा 'दण्डी पुरुषः' इत्यत्र पुरुषे दण्डासंसर्गग्रहो नास्ति । यदा तु दण्डासंसर्गाग्रहस्तदा समूहालम्बनमेव, यथा २'दण्डपुरुषौ'इत्यत्र पुरुषे दण्डो नास्तीति ज्ञाने सत्यपि दण्डपुरुषो-इति ज्ञानोदयादिति दिक् । अनिष्टेति यथा प्रवृत्तिं प्रति इष्टसाधनताज्ञानं कारणं तथा निवृत्तिं प्रत्यनिष्टसाधनमिति उपकरणे यथा सर्पोऽनिष्टसाधनमिति ज्ञानान्निवर्तते इति दिक् । (II) सन्निकर्षचतुष्टयम् । तद्गतेति पूर्वमुक्तं गुणक्रियाद्रव्यजातिप्रत्यक्षं प्रति संयुक्तसमवायसन्निकर्ष इति । तथा च परिमाणमपि यद्यपि गुणविशेषं तथापि संयुक्तसमवायि(य) सन्निकर्षमात्रेण न गृह्यते । अन्यापि काचनसामग्र्यपेक्ष्यते । सा का ? इत्यत आह-इन्द्रियावयवैरिति - यदा घटगतं परिमाणं गृह्यते 'एतावान्घट' इति प्रत्यक्षे घटवयवैः सममिन्द्रियावयवानां संयोगोऽपेक्ष्यते(१)अथ च घटेनेन्द्रियेण च संयोगः (२) अथ च घटवयवैरिन्द्रियावयविना संयोगः (३) इन्द्रियावयवी, घटोऽवयवी, अनयोः संयोगोऽपेक्ष्यते (४) । एतच्चतुष्टयसत्त्वे एवैतावानिति परिमाणग्रह:-नान्यथेति जीर्णाः । नवीन मते तु गुणसामान्यप्रत्यक्षं प्रति संयुक्तसमवाय एव सन्निकर्षः । न च दूरस्थघटदिपरिमाणं कथं न गृह्यत इति वाच्यम् । तत्र दूरत्वरूपदोषस्यैव प्रतिबन्धकत्वादिति चतुष्टयकल्पने गौरवम् । ___ आदिपदेति तथा च परिमाणादित्यत्रादिपदेन दीर्घहृस्वत्वग्रहणम् । एतै च परिमाणविशेषौ "उत्कर्षादिति । यद्यपि 'गुणपरिमाणप्रत्यक्षं संयुक्तसमवायसन्निकर्षेणैव गृह्यते तथापि तद्गतो त्कर्षादिग्रहणार्थं यथा'ऽयं एतावानेवे'ति ज्ञानार्थसन्निकर्षचतुष्टयमेपेक्ष्यते इत्यर्थः । (III) षोढा सन्निकर्षः। अत्र सन्निकर्षग्रन्थे किञ्चिद्विचार्यते। - लौकिकसन्निकर्षः षोढेति तत्राद्येन द्रव्यस्य (१) १. B विषयकत्वात् । २. B दण्डौ पुरुषौ ३. B इत्यर्थः । ४. B उक्तार्थत्वादि. ५. A omits गुण. ६. A om its किञ्चिद्. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002581
Book TitleTarkatarangini
Original Sutra AuthorN/A
AuthorGunratna, Vasant G Parikh
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy