________________
७१
तर्कतरङ्गिणी
द्वितीयेन गुणकर्मजात्यादीनां (२) तृतीयेन रूपत्वादीनां (३) चतुर्थेन शब्दस्य (४), पञ्चमेन शब्दत्वादेः (५) षष्ठेनाभावादेर्ग्रहणमिति (६) न्यायमतम् ।
ननु घटादिचाक्षुषं प्रति चक्षुर्घटादिसंयोगः कारणं न भवति, व्यभिचारात् । तथाहि यत्र घटे द्वयणुकावच्छेदेन त्र्यणुकावच्छेदेन वा चक्षुः संयोगोऽस्त्यन्यस्यावृत्तित्वात् 'तत्रचाक्षुषं प्रत्यक्षं न जायत इति व्यभिचारः । तद्वारणार्थं स्थूलावयवावच्छेदेन घटचक्षुः संयोगः - कारणस्थौल्यं फलवलकल्प्यम् । यद्द्रव्यचक्षुःसंयोगानन्तरं प्रत्यक्षं जायते तदेव स्थौल्यं ग्राह्यम् । तथा च कार्यकारणभावद्वयं वक्तव्यम् आत्मनोऽवयवाभावेनैकरूपेण कारणत्वकल्पनानुदयात् । एवं चात्मप्रत्यक्षत्वेन कार्यत्वम् । एवमवयवीद्रव्यप्रत्यक्षे संयुक्तसमवायसन्निकर्ष एव कारणम् । यदि स्थूलावयवावच्छेदेनेन्द्रियसंयोगस्य कारणत्वं स्वीकृत्य एकैव कार्यकारणभावः स्वीकार्यः, तदाऽऽत्मनि व्यभिचारः । तस्य निरवयत्वात् । तद्व्यभिचारवारणार्थं कार्यकारणभावद्वयं वक्तव्यम् । आत्मप्रत्यक्षं प्रति आत्ममनः संयोगः आत्मनः संयोगत्वेन कारणम् । आत्मप्रत्यक्षत्वेन कार्यत्वमित्येकः कार्यकारणभावः । अपरस्त्वात्मभिन्नद्रव्यप्रत्यक्षत्वेन' कार्यत्वम् । इन्द्रियसंयोगत्वेन कारणत्वमित्यपरः । परं चात्मभिन्नद्रव्यप्रत्यक्षत्वेन कार्यत्वम्, न कारणत्वम्, (?) चेन्द्रियसंयोगस्येन्द्रियसंयोगत्वेन रूपेण कार्यकारणभाव इति । न च रूपाद्यनुरोधेन यथा रूपग्रहणार्थं क्लृप्तो यः संयुक्तसमवायसन्निकर्षः तेनैव घटादिग्रहणसम्भवे संयोगस्य सन्निकर्षत्वे किं प्रमाणम्, एवमवयवीद्रव्यप्रत्यक्षे संयुक्तसमवायसन्निकर्ष एव कारणमिति वाच्यम् । यद्यपि घटादिप्रत्यक्षस्थले संयुक्तसमवायस्यैव प्रत्यासत्तित्वमुचितं तथाप्यात्मविषयकप्रत्यक्षार्थं संयोगः सन्निकर्षः आवश्यक एव । एकत्र क्लृप्तोऽर्थोऽन्यत्र कल्प्यते इति न्यायेन जन्यद्रव्यप्रत्यक्षं प्रत्यपि संयोगस्यैव कारणत्वमिति मणिकारः । तदपि मन्दम् । यद्यप्यात्मविषयकप्रत्यक्षं प्रत्यनन्यगत्या मनः संयोगस्य कारणत्वं स्वीक्रियते तथापि जन्यद्रव्यप्रत्यक्षं प्रति संयुक्तसमवायस्यैव कारणत्वमुचितम् । न च विनिगमनाविरहेण यथा संयोगो वा कारणं संयुक्तसमवायो वा कारणमिति रूपेण जन्यद्रव्यप्रत्यक्षं प्रति संयोगस्यैव कारणत्वं संयुक्तसमवायापेक्षया संयोगस्यैव लघुत्वमिति वाच्यम् । रूपादिविषयकप्रत्यक्षस्थले संयुक्तसमवायप्रत्यासत्तिरावश्यकी । तयैव प्रत्यासत्त्या यदि जन्यद्रव्यप्रत्यक्ष निर्वहति, तदा "जन्यद्रव्यप्रत्यक्षं प्रति संयोगस्य कारणत्वे प्रमाणाभावात् । न चात्मप्रत्यक्षनिर्वाहार्थं संयोगप्रत्यासत्तिरिति जन्यद्रव्यप्रत्यक्षार्थमपि संयोग एव 'कारणमेकत्रक्लृप्त इति निर्वाहादिति वाच्यम् । आत्मप्रत्यक्षेऽऽत्मनः तादात्म्यमादाय संयुक्ततादात्म्यस्य प्रत्यासत्तित्वात् । अस्यार्थः - मनः संयुक्तो भवत्यात्मा । तस्य तादात्म्यं तत्स्वरूपम् । तेन मन:- संयुक्तात्मस्वरूपमेव सन्निकर्षः । अस्य सन्निकर्षत्वे किं प्रमाणमिति
१. A तत्रचा. २. B -त्वेन तु का. ३. A omits the reading between परं.... कार्यकारणभाव इति. ४. B प्रत्यक्षत्वे. ५. B प्रत्यपि ६. B द्रव्यसाक्षात्कारं प्र० ७ B जन्यप्रत्यक्षं. ८ B कारणमन्यत्र ९. B तस्य.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org