________________
७२
तर्कतरङ्गिणी चेत्, अभावादिविषयकप्रत्यक्षार्थमयं सन्निकर्ष: 'स्वीकार्य एव । अन्यथाऽभावप्रत्यक्षं न स्यात् ।
अयमेव विशेषणविशेष्यभावो गीयते । इन्द्रियसम्बद्धतादात्म्यमेव विशेषणविशेष्यभावः । यथा भूतले घटो नास्तीत्यत्र चक्षुषा यदा घटाभावप्रत्यक्षं भवति तदा चक्षुःसंयुक्तभूतलवृत्तिरूपम् भावतादाम्यं सन्निकर्षः । एवं घटे घटत्वसमवाय इति यदा प्रत्यक्षं जायते तदापि चक्षुरिन्द्रियसंयुक्तघटवृत्तित्वरूपं समवायतादात्म्यं सन्निकर्षः । अन्यथा भूतले घटाभाव इति समूहालम्बने परस्परं विशेषणविशेष्याभावात् ज्ञानं न स्यात् । विशेषणविशेष्यभावव्यतिरेकेणाप्यभावप्रत्यक्षसम्भवाद् व्यभिचारः स्यात् । तादात्म्यं च विशेषणविशेष्यभावातिरिक्तपदार्थाभावात् स्वरूपमेव । तथा चात्मविषयकप्रत्यक्षं प्रति मनःसंयुक्तात्मतादात्म्यमेव सन्निकर्षः। किं संयोगेनेति । भवतु वाऽऽत्मप्रत्यक्षत्वं संयोगस्य कार्यतावच्छेदकम् । ननु घटदिप्रत्यक्षस्थले-कार्यकारणभावान्तरकल्पनारूपादिप्रत्यक्षस्थले क्लृप्तकार्यकारणभावकल्प्यनयैवोपपत्तेः, किञ्च स्थौल्यस्यानुगतस्याभावेनैकरूपेण कारणत्वकल्पनानुदयात् । एवं च संयुक्तसमवायप्रत्यासत्तेः कार्यतावच्छेदकं द्रव्यसमवेतत्वं जन्यद्रव्यप्रत्यक्षसाधारणं वक्तव्यम् । तथा च घटप्रत्यक्षे चक्षुरिन्द्रियसंयुक्तं भवति कपालं तत्समवेतो भवति घटः । अतः प्रत्यक्षं द्रव्यसमवेतप्रत्यक्षं भवति द्रव्येकपाले घटसमवायात् । एवं रूपप्रत्यक्षेऽपि संयुक्तसमवाय एव प्रत्यासत्तिः ।
__ अत्राहुः स्थूलावयवावच्छेदेनेत्यस्य संयोगनिष्ठं वैजात्यतात्पर्य आत्मघटादिसंयोगसाधारणसंयोगनिष्टं वैजात्यं जनकतावच्छेदकम् । तथा च-स्थौल्यसंयोगनिष्ठो जातिविशेषः । ततो येनात्ममनःसंयोगविशेषणात्मविषयकं प्रत्यक्षं जायते, तन्निष्ठात्मप्रत्यक्षजनकतावच्छेदकात्ममनः संयोगो तिष्ठति । "तथा च जन्यद्रव्यप्रत्यक्षत्वं कार्यतावच्छेदकमिन्द्रियसंयोगत्वरूपं वैजात्यमुक्तरूपं कारणतावच्छेदकमिति । तदपि मन्दम् । यत्र चक्षुःक्रियासमकालमेव कपालस्य घटारम्भक संयोगानुकूलं कर्म। तदनन्तरं चक्षुःक्रियया पूर्वदेशेन समं चक्षुषो विभागो जनितः । तदनन्तरं चक्षुषः पूर्वसंयोगनाशो जातः। तदनन्तरमेकस्मिन्नेव क्षणे चक्षुषा कपालेन समं संयोगः । तस्मिन्नेव क्षण कपालक्रियया घटारम्भकीभूत कपालद्वयसंयोगो वृत्तस्तेन चक्षुरिन्द्रियकपालसंयोग:घटार-म्भकीभूतकपालद्वयसंयोगयोरेक एव क्षणः । तदनन्तरं घटोत्पत्तिः । तदनन्तरं घटप्रत्यक्षम् । तन्न स्यात्। घटेन समं तदा संयोगाभावात् घटस्यानुत्पन्नत्वात्।
अस्माकं मते तु तदानीमपि घटप्रत्यक्षं भवत्येव । संयुक्तसमवायसत्त्वात् । चक्षुसंयुक्तं भवति कपालम् । तत्र घटसमवायात् । न च तत्र घटप्रत्यक्षं न भवत्येवेति वाच्यम् । निश्चिताव्यभिचारकं रूपं विहाय सन्दिग्धव्यभिचारकत्वेन रूपेण तत्र कारणत्वकल्पनानुदयादिति दिक् । १. B स्वीकार्यमेव । २. B स्थौल्यं सानुगत. ३. B omits च. ४. PI. Read घटेन्द्रियसंयोगोऽपि तिष्ठति। before तथा च.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org