________________
तर्कतरङ्गिणी
७३ तथा चोक्तव्यभिचारादेव संयोगसन्निकर्षः । एवमुक्तरीत्या संयुक्तसमवायस्यापि प्रत्यासत्तित्वं खण्डनीयम् । रूपत्वादिप्रत्यक्षस्थले या क्लृप्ता संयुक्तसमवेतसमवायादिरूपा प्रत्यासत्तिः तयैव द्रव्यादिप्रत्यक्षनिर्वाहात् । तथाहि यदा घटविषयकं प्रत्यक्षं जायते तदा कपालावयवकपालिकया समं चक्षुरिन्द्रियसंयोगो जातः । तदा चक्षुरिन्द्रियसंयुक्ता भवति कपालिका । तत्र समवेतं भवति कपालम, तत्समवेतो भवति घटः । इति संयुक्तसमवेतसमवाय एव प्रत्यासत्तिः । एवं रूपादि प्रत्यक्षेऽपि 'चक्षुरिन्द्रियसंयुक्तं भवति कपालम् । तत्समवेतो भवति घटः । तत्र रूपसमवायात् । एवं रूपप्रत्यक्षेऽपि संयुक्तो भवति घटः, तत्र समवेतं रूपम् , तत्र रूपत्वसमवायात् । एवं द्रव्यगुणकर्मजातिप्रत्यक्षे संयुक्ते समवेतसमवाय एव प्रत्यासत्तिः । एवमुक्तरीत्या प्रथमद्वितीयाभावः सिद्धः । समवाय उचित एव सन्निकर्षः श्रोत्रमिन्द्रियं, शब्दोऽर्थः । अनयोः सन्निकर्षः समवाय एव । इति समवेतसमवायस्योपयोगः । शब्दत्वप्रत्यक्ष एव नान्येत्रति दिक् ।
ननु संयोगादिसन्निकर्षस्य कारणत्वेऽन्धकारस्थस्य घटचक्षुसंयोगानन्तरं घटप्रत्यक्षं कुतो न भवतीति चेत्, आलोकसंयोगरूपकारणान्तराभावात् । तत्सामग्रयां कस्यापि सत्त्वात् । न चान्धकारस्य प्रतिबन्धकत्वेन तदभावस्यैव प्रतिबन्धकाभावत्वेनैव कारणत्वमिति वाच्यम् । आलोकाभावा भावत्वापेक्षयाऽऽलोकत्वस्य लघुत्वात् । अन्यथा घटं प्रति दण्डादेरपि दण्डाद्यभावत्वेनैव कारणता स्यात् ।
ननु यदा ५भस्मत्वाच्छादिना वह्निना सममन्धकारघटसंयोगो वर्तते तदा घटप्रत्यक्षं कुतो न जायतेऽऽलोकसंयोगरूपकारणसत्त्वादिति चेत्, न । प्रमाविशिष्टतेजःसंयोगस्यैव कारणत्वात् । ननु यदा किञ्चिद्देशावच्छेदेनालोकसंयोगोऽपि तत्र घटादिप्रत्यक्षं कथं न स्यादिति चेत्, न । यद्देशे चक्षुरिन्द्रियार्थसंयोगस्तत्र देश एवालोकसंयोगः कारणम् ।
नन्वालोकसंयोगस्य कारणत्वं किं प्रत्यक्षमात्रे वाऽलौकिक प्रत्यक्षमात्रे वा चक्षुर्जन्यलौकिकप्रत्यक्षमात्रे वा ? नाद्यः, सामान्यलक्षणप्रत्यासत्तिजन्यप्रत्यक्षे व्यभिचारात् । आलोकातिरेकेणापि तत्सम्भवात् । नापि द्वितीयः, स्पार्शनप्रत्यक्षे व्यभिचारात् । नापि तृतीयः, घटप्रत्यक्षे व्यभिचारात् । घटत्वेन सहालोकस्य संयोगाभावादिति चेत्, ना चक्षुर्जन्यद्रव्यप्रत्यक्ष एवालोकस्य कारणम् । तथा च यत्र विषयतासम्बन्धेन चक्षुर्जन्यलौकिकप्रत्यक्षं तत्र समवायसम्बन्धेनालोकसंयोगः कारणम् । न चालोकप्रत्यक्षे व्यभिचारः आलोकसंयोगाभावादिति वाच्यम् । आलोकेतरचाक्षुषद्रव्यप्रत्यक्षत्वैव(त्वस्यैव ?) कार्यतावच्छेदकत्वात् । यदि नीलेतरघटत्ववदालोकेतरद्रव्यचाक्षुषप्रत्यक्षत्वं कार्यतावच्छेदकं न भवति, तदाऽऽलोकसंयोगस्य १. B omits चक्षुरिन्द्रिय. २. B श्रोत्रेन्द्रियशब्दो. ३. B घटसंयोगा.. ४. B चान्धकरालोकस्य. ५. B भस्मत्वादिवह्निना. ६. Pl. add प्रत्यक्षत्वस्य नित्यज्ञानसाधारणता, ईश्वरज्ञाने प्रत्यक्षत्वेऽपि आलोकजन्यत्वाभावात् ।। तर्क.-१०
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org