________________
७४
तर्कतरङ्गिणी समवायतादात्म्यान्तरसम्बन्धेन कारणत्वं वाच्यम् । यत्रालोकविषयं प्रत्यक्षं जायते तत्र तादात्म्येन यदा द्रव्यादिप्रत्यक्षं जायते तदा समवायसम्बन्धेन प्रत्यासत्तितावच्छेदकं चान्यतरत्वमेव । न चालोकसंयोगत्वेन कारणता, द्रव्यचाक्षुषप्रत्यक्षत्वेन कार्यता तदा नक्तचरं बिडालोलू कादीनां व्यभिचारमि (र: इ) ति वाच्यम् । तत्रापि तदीयचक्षुनिष्ठालोकनिरूपितालोकसंयोगसत्त्वान्न व्यभिचार इति चेत्, न । यदा तदीयचक्षुनिसृतालोकसंयोगोऽन्धकारस्थघटेऽस्ति तदाऽन्धकारस्थपुरुषस्यापि घटविषयकप्रत्यक्षापत्तिः । तद्वारणार्थं तदीयचक्षुनिसृतालोकसंयोगः तदीयप्रत्यक्षं प्रत्येव कारणम् । न चैवं कार्यकारणभावे कल्प्यमाने सहस्रवर्षपर्यन्तं कारणभावो दुनिरुप्य इति वाच्यम् । "बिडालादिप्रत्यक्षतरचाक्षुषप्रत्यक्षं प्रत्यालोकसंयोगस्य कारणत्वमिति मैथिलाः । तदसत् । नीलेतरघटत्ववद्विडालादिप्रत्यक्षतरचाक्षुषप्रत्यक्षत्वं कार्यतावच्छेदकं न स्यादिति संक्षेपः ।
उक्तग्रन्थे योजनार्थमाभासं ददाति नन्विति । एतावतेति अभावग्रहं प्रति संयुक्तविशेषणतैव प्रत्यासत्तिरुक्ता । यथा चक्षुःसंयुक्तं भूतलादि तद्विशेषणतातत्सम्बद्धताऽभावो(वे ?) वर्तते । भूतलाभावयोः सम्बन्धत्वात् । विशेषणपदेन सम्बद्ध एवेति । एवमुक्ते सति दूषणमाहतथा सतीति पीतेति यदा पीते रूपे “रक्तत्वाभावप्रत्यक्षं जायते-इह पीतरूपे रक्तत्वं नास्तीति । अत्रेन्द्रियसंयुक्तविशेषणताव्यतिरेकेमपि रक्तत्वाभावप्रत्यक्षोदयात्पीतरूपेण समं चक्षुःसंयोगाभावात् । तदुद्धारार्थं विवक्षान्तरं योजयति तदेवमितीति।
पञ्चविधो यो सम्बन्धः संयोगादिरूपः तत्सम्बद्धविशेषणतारूपः सन्निकर्षः अभावग्राह्यो वाच्यः । तथा च भूतले यदा घटद्यभावो गृह्यते तदा संयुक्तविशेषणता सन्निकर्षः । [१] यदा तु रूपे कर्मत्वाद्यभावो गृह्यते तदा संयुक्तसमवेतविशेषणतासन्निकर्षः । चक्षुःसंयुक्तघटसमवेतरूपस्य विशेषणतावर्तते कर्मत्वाभावे । (२) यदा तु रूपत्वे घटत्वाद्यभावो गृह्यते तदा संयुक्तसमवेतसमवायविशेषणताप्रत्यासत्तिः, चक्षुसंयुक्तघटसमवेतरूपसमवेतरूपत्वस्य विशेषणता घटत्वाभावे । (३) यदा शब्दे घटत्वाभावो गृह्यते तदा समवेतसमवायसम्बद्धविशेषणताप्रत्यासत्तिः, आकाशलक्षणश्रोत्रेन्द्रियसमवेतसमवायसम्बद्धत्वात् 'घटत्वाभावस्येति । (४) यदा च शब्दत्वे रूपत्वाभावो गृह्यते तदा समवेतसमवायसम्बद्धतासन्निकर्षः, समवेतो भवति शब्दः तत्समवेतं भवति शब्दत्वं तत्सम्बद्धता वर्तते रूपत्वाभावे-इति (५)।
एवं समवायोऽपीति मूलम् यदा घटे घटत्वसमवायो गृह्यते तदा संयुक्तविशेषणता चक्षुःसंयुक्तघटसम्बद्धत्वात् समवायस्य । (१) यदा “रूपे रूपत्वसमवायो गृह्यते तदा संयुक्तसमवेत
१. B -लूकानां. २. A यदि. ३. B. प्रत्येव प्रमाणं कारणम् । ४. B -दिचाक्षुषेतरचाक्षु.. ५. B omits रूपे. ६. A समवेतसम्बन्ध. ७. B घटाभावस्येति. ८. A रूपेण.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org