________________
तर्कतरङ्गिणी
७५ सम्बद्धता; संयुक्तो भवति घटः, तत्समवेतं रूपम्, तत्सम्बद्धता रूपत्वसमवायस्य । (२) एवं समवायग्रहे सन्निकर्षद्वयमेव कारणम् । इदमेव टीकाकारेण - षड्वान्यतमपदेन विवक्षितमित्यर्थः ।
॥ इति सन्निकर्षग्रन्थव्याख्या ।। (IV) बौद्धमते प्रत्यक्षविचारः ।
अर्थजन्यमिति । यद्यपि बौद्धमते सविकल्पमपि ज्ञानं वर्तते तथा[पि]तेषां मते निविकल्पस्यैव प्रमाणत्वात् न सविकल्पमेव प्रमाणम् । असद्विषयत्वात् सविकल्पस्याप्रामाण्यम्, निर्विकल्पं तु सद्विषयत्वात् प्रमाणम् । तत्र निर्विकल्पके सद्विषयत्वं कुतः इत्यत आह-प्रत्यक्षमिति तथा च निर्विकल्पके परमार्थतः 'सत्ता व्यक्तिः कारणम् । सविकल्पके तु सामान्यस्यापि कारणत्वं नैयायिकैः स्वीक्रियते । तच्च नास्ति बौद्धमते तस्य शशशृङ्गतुल्यत्वात् । यथा शशशृङ्गविषयकं ज्ञानं(अ)प्रमाणं तथाऽयं घट इत्यपि ज्ञानमप्रमाणम् । घटत्वादेरभावेन तद्विषयकतया तस्याप्रामाण्यम्। सविकल्पकं भ्रमरूपमेव ।
ननु सामान्यं यदि भावरूपं न सम्भवति तदाऽयं घट इत्यत्र घटत्वमपि भासते तत्किमित्यत आह-अघटव्यावृत्तेरिति अघटव्यावृत्तिपदेन घटभिन्नान्योन्याभाव गृह्यते । तेन तन्मते घटमात्रे घट भिन्नान्योन्याभावः, तत्राघटव्यावृत्तिरिति । तथा च घट इतरेभ्यो भिद्यते, घटभिन्नान्योन्याभाववत्त्वात्इति भेदसाधनम् । तथा च सविकल्पके घटत्वस्थानीयघटभिन्नान्योन्याभावविषयत्वात् न प्रत्यक्षत्वम्, सामान्यस्य भावरूपासत्त्वेन । अभावस्य तन्मते तुल्यतयाऽर्थजन्यत्वाभावान्न प्रत्यक्षत्वम् । अर्थजन्यस्यैव प्रत्यक्षत्वादित्याह - अर्थजन्यमिति स्वलक्षणमिति ननु बौद्धानां मतेऽप्रमाणम्, तदप्रामाण्यस्वीकारात्, घटमहं जानामीत्यनुव्यवसाय इति चेत्, तस्यापि, सविकल्पकत्वेनाप्रामाण्यस्वीकारात् । अतः तत्सद्भावे प्रमाणं वदति स्वलक्षणमिति । तथा च स्वमेव लक्षणं ज्ञापकं । यस्येति निर्विकल्पकसत्त्वे निर्विकल्पकमेव प्रमाणमित्याशयार्थः ।।
अनुगतेति ननु सामान्य विषयकं सविकल्पकं कथं प्रत्यक्षमित्येव वक्तुमुचितं किमर्थमनुगताकार इति चेत्, न । अनुगताकारपदेन सामान्यस्य तुच्छत्वबोधनादन्योन्याभाव एवानुगतो धर्मः । तद्विषयकं ज्ञानमनुगताकारत्वपदेनोच्यते । तन्मतेऽभावपदार्थः तुच्छ एव स्वीकारात् ।
ननु तन्मते किं प्रमाणमित्यत आह-तन्मत इति बौद्धमते प्रामाणिकं चेदं यद्यस्तु देशकालानुगतं न भवति, अथ क्षणिकं भवति एकदेशस्थायि च भवति तदेव प्रमाणम् । यथाघटाद्यर्थः प्रामाणिको भवति, तस्य देशकालानुगतत्वं नास्ति । यत्र देशे घटस्तिष्ठति तत्र देशेव्याप्यं न तिष्ठति, यथा 'गृहे घट' इति गृहीत्वाऽवच्छेदेन न तिष्ठति । अतः देशेन सममनुगतोऽव्यापकः । एवं
१. B -समवायस्तस्य. २. B सति. ३. B ज्ञानं प्रमाणम्.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org