________________
७६
तर्कतरङ्गिणी
कालेनापि सममव्यापक: स्थूलकालव्यापकत्वाभावात् । घटाद्यर्थः तन्मते क्षणिकोऽपि भवति, एकदेशस्थाय्यपि भवतीति घटरूपोऽर्थः प्रामाणिक इत्यर्थः । घटत्वादिरूपं सामान्यं च न तथा । तस्य देशकालानुगतत्वात्व्यापकत्वात् । देशानुगतत्वं नित्यत्वात् । कालानुगतत्वमक्षणिकत्वमपि, नित्यत्वात्। अनेकदेशवृत्तित्वमपीति सामान्यविषयकं सविकल्पकं न प्रत्यक्षमिति तेषामाशयः ।
न्यायमतेन सविकल्पकस्य प्रत्यक्षत्वं साधयति-प्रथमत इति यथा घट इत्युच्चारेऽन्योन्याभावत्वप्रकारकं ज्ञानं न जायते, जायते च घटत्वप्रकारकं तथा घटत्वस्या "भावत्वकल्पने गोरव इति भावः ।
तुष्यतु दुर्जन्यायेनेत्याह-अभावरूपत्वेऽपीति अभावोऽपि प्रामाणिकः । तत्र हेतुः-यथा तस्यापि कार्यजनकत्वात् । देशे इति देशकालव्यापकत्वं तुच्छत्वे त्वया य: प्रयोजक: उक्तः स च द्वयोः बौद्धनैयायिकयोः मते न सिद्धः । नैयायिकमते देशकालानुगतस्याभावस्य तुच्छत्वे साध्येऽप्रयोजकत्वात् अनुकूलतर्काभावादप्रयोजकत्वम् । नैयायिकैः क्षणिकत्वमपि कुत्रापि न स्वीक्रियते इत्यर्थः ।
__[व्याख्यातं प्रत्यक्षम् ॥]
[९] ॥ अनुमान-निरूपणम् ॥ (1) अनुमानलक्षणम् ।
- इदानीमनुमानं निरूप्यते । लिङ्गेति "अनुमानस्येदं लक्षणम् । तथा च लिङ्गस्य-साधनस्य परामर्शो ज्ञानं तदनुमानमित्यर्थः । चरमेति चरमकारणत्वं नाम व्यापाराभावत्वे सति कारणत्वम् । व्यापाराभावात्कारणत्वं नास्ति । तदभावाच्च प्रमाणत्वाभावः । तदा(द)भावाच्चानुमानत्वाभावः । अत्र हेतुमाह-सामान्याभाव इति प्रमाकरणत्वरूपसामान्याभावेऽनुमितिकरणत्वरूपविशेषेण स्थातुमशक्यत्वादित्यर्थः ।।
दोषान्तरमाह लिङ्गेति परामर्शपदेन व्याप्तिविषयकं प्रत्यक्ष(पक्ष)धर्मताज्ञानम् । तथाहि 'वह्निव्याप्यधूमवानयम्'-इत्यनुमाने व्याप्तिर्विषयीभूता भवति । व्याप्यत्वं नाम व्याप्तिप्रतियोगिकत्वंव्याप्तिनिरूप्यत्वमिति यावत् । तेनात्र ज्ञाने व्याप्तिः विषयत्वेन भासते, पक्षधर्मताऽपि मतुब् प्रत्ययेन भासते । यथा-'धूमवानयम्' इति । पक्षवृत्तिधूमे वह्निनिरूपिता व्याप्तिः । पर्वतवर्तित्वं च पक्षधर्मतारूपम्-विषयतयाऽनुमानरूपज्ञाने भासते इत्यर्थः ॥
१. B -ऽपि न भवति. २. B omits च. ३. This प्रतीक is not found in the available text of त. भा. प्र. ४. B स्याभाव. ५. B -स्य लक्ष. ६. B -करणं. ७. A तद्भावा..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org