________________
७७
तर्कतरङ्गिणी
अत्रातिव्याप्तिमाह धूमे इति 'धूमो वह्निव्याप्यालोकः पर्वतवृत्तिरिति' समूहालम्बनेऽतिव्याप्तिः। एतस्यापि व्याप्तिविषयकपक्षधर्मताविषयकज्ञानत्वात् । व्याप्ति गृहीता धूमे, पक्षधर्मता चालोके इति । एतद्वारणार्थं 'विवक्षां करोति-एकस्मिन्निति तथा चैकत्रधर्मिण्युभयविषयकत्वं विवक्षितं तेन नातिव्याप्तिः । तथाप्युक्तलक्षणे दोषान्तरमाह-व्यतिरेकीति यथा-'पृथिवी इतरेभ्यो भिद्यते, पृथिवीत्वात्,', इत्यत्र यत्रेतरभेदाभावः तत्र पृथिवीत्वाभावः, यथा जलम्, तथा चायम्-इतरभेदाभावव्याप्यपृथिवीत्वाभावप्रतियोगित्ववर्तीति परामर्शः । अत्राव्याप्तिः । कथम् ? पक्षधर्मं पृथिवीत्वे व्याप्तेरविषयकत्वात् । व्याप्तिस्तु पृथिवीत्वाभावे इतरभेदाभावस्य भासते । तथा चैकत्रधर्मिण्युभयविषयकत्वादव्याप्तिरित्याशङ्कार्थः ।
समाधत्ते-एतेषामिति येषां जीर्णानां मते लिङ्गपरामर्शोऽनुमानं तेषां मते फलायोगव्यवच्छिन्नं कारणं करणमिति न व्यापारवत्त्वम् । तन्मते निर्व्यापारस्यापि करणत्वात् । अतिव्याप्तिमव्याप्तिं चोद्धरतिव्यभिचारेति व्यभिचारज्ञानस्य विरोधी यत्पक्षधर्मताज्ञानं तदेव लिङ्गपरामर्शपदेनोच्यते । तथा च समूहालम्बने व्यभिचारज्ञानविरोधिपक्षधर्मताज्ञानत्वं नास्ति । कथमिति चेत् 'आलोको वढ्य भाववद्वत्ति'रिति व्यभिचारज्ञाने सत्यपि धूमो वह्निव्याप्यालोकः पर्वतवृत्तिरिति ज्ञानोदयात् । तथा च व्यभिचारज्ञानविरोधित्वाभावेन समूहालम्बेन नातिव्याप्तिः । व्यतिरेकिण्यव्याप्तिमुद्धरति-धूमे इति यथाऽन्वयव्याप्तौ धूमो वह्निव्याप्य इति ज्ञाने विद्यमाने वयभाववृत्तिधूम इति व्यभिचारज्ञानाभावात्। यतो व्याप्यपदमध्ये वह्निसामानाधिकरण्यं धूमे गृहीतं ततो वयभावसमानाधिकरण्यं ज्ञानं न भवतीति व्यभिचारज्ञानविरोधित्वम् । व्यतिरेकिण्यपि यथा वह्यभावव्यापकीभूताभावधूमाभावप्रतियोगि धूमवानयमिति व्यतिरेकी परामर्श विद्यमाने धूमाभावो वक़्यभावासमानाधिकरण इति व्यभिचारज्ञानानुदयात् व्यभिचारज्ञानविरोधित्वमुभयोः परामर्शयोरप्यस्तीति । उभयथापीति यदा 'धूमो वह्निव्याप्य' इत्यन्वयपरामर्श जाते धूमे वल्यभावसामानाधिकरण्यं गृहीतुमशक्यम् । अथ च व्यतिरेकिण्यपि वल्यभावव्याप्यधूमाभाव इति द्वितीयज्ञाने विद्यमाने धूमो वढ्यभाववृत्तरिति ज्ञानानुदयादित्यर्थः ।
भ्रान्तः शङ्कते-नन्वितीति तथा चानुमितिकरणत्वावच्छेदेन लिङ्गपरामर्श इति लक्षणं क्रियते। तेन लक्ष्यतावच्छेदकलक्षणयोwधिकरणत्वाल्लक्षणं न सम्भवति । लक्ष्यतावच्छेदकमनुमितिकरणत्वमनुमाने तिष्ठति । लिङ्गपरामर्शत्वं च लिङ्गपरामर्श इति व्यधिकरणता । एतदेवाह अनुमानस्य लक्षणं लिङ्गपरामर्शत्वम् । लक्ष्यतावच्छेदकं चानुमितिकरणत्वम् । उक्तरीत्याऽनयोः सामानाधिकरण्यमित्यर्थः । सामानाधिकरण्यमिति यल्लक्षणं लिङ्गपरामर्शरूपं तदेव लक्ष्यमनुमितिकरणरूपम् । तत्र परामर्शत्वानुनुमितिकरणत्वयोः वृत्तेः सामानाधिकरण्यसत्त्वाच्छङ्काकर्ता भ्रान्त १. B विवक्षान्तरं. २. B यत्र यत्रे. ३. B जलमिति. ४. B अनातिव्याप्तिः । ५. B omits इति ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org