________________
७८
तर्कतरङ्गिणी
इत्यर्थः । (II) लिङ्गलक्षणम् ।
व्याप्तीति व्याप्तिबलेन व्याप्तिविशिष्टत्वेन यद्गमकं-अर्थज्ञानजनकत्वं तल्लिङ्गमित्यर्थः । लिङ्गलक्षणं पक्षतायामिति व्याप्तिमाशङ्कते-नन्विति तथा च व्याप्ति सहकार(रि)णीं कृत्वा पक्षतयाऽप्यर्थज्ञानंवढ्यादिज्ञानं जन्यत एवेति मिश्रमते पक्षताजन्यत्वे सति परामर्शजन्यत्वमनुमितिलक्षणम् । सत्यन्तं संशयविपर्ययोत्तरप्रत्यक्षेऽतिव्याप्तिवारणार्थम् । 'सिषाधयिषाविरहसहकृतसाधकमानसिषाधयिषाविरहसकृतसिद्ध्यन्योन्याभावः पक्षता । अत्र संशयोत्तरप्रत्यक्षे सिषाधयिषा विरहसहकृतसाधकमानस्य सन्निकर्षस्य सत्त्वान्न पक्षता । यद्यपि सिद्धिभावोऽस्ति तथापि न साधकमानाभाव इति । तथा च यथा लिङ्गस्य धूमादेर्व्याप्तिबलेनार्थगमकत्वं वर्तते तथा पक्षताया अपि व्याप्तिबलेनार्थगमकत्वं वर्तते । धूमपक्षादीनामपि सर्वेषामपि कारणत्वाल्लिङ्गलक्षणं पक्षतायामतिव्याप्तमित्याशङ्कार्थः ।
उद्धरति-व्याप्तिमत इति तथा च व्याप्तिमत्त्वे सत्यर्थगमकं लिङ्गामिति लिङ्गलक्षणम् । तथा च पक्षतायाः साधकमानाद्यभावरूपायाः प्रतिबन्धकाभावत्वेन कारणत्वं साधकमानाद्यभावे च वह्निनिरूपिता व्याप्तिर्नास्तीति नातिव्याप्तिः । न चेति 'जलं पृथिवीत्ववत्, घटत्वात्'-इत्यत्र घटत्वरूपं लिङ्गस्य व्याप्तिमत्त्वे सति अर्थगमकत्वं वर्तते । तेनातिव्याप्तिरित्यादौ-'हृदो वह्निमान्, धूमात्;'-इत्यादौ स्वरूपासिद्धेऽतिव्याप्तिः । पक्षेति तथा च तत्र हेतोः पक्षधर्मताभावान्नातिव्याप्तिरित्यर्थः । (III) व्याप्तिनिरूपणम् ।
साहचर्येति अत्र नियमपदेनाव्यभिचारित्वमात्रं ग्राह्यम् । तथा चाव्यभिचारित्वे सति यस्य येन समं सहचारस्तत्र तस्य सा व्याप्तिः । यथा यत्र धूमस्तत्र वह्निरित्यं सहचारोऽव्यभिचारविशिष्टो भवतीति वह्निनिरूपिता व्याप्तिः धूमे । अन्यथा नियमपदेनैव व्याप्तिस्वरूप प्राप्ते सहचारपदं व्यर्थमेव, स्यात् । यद्यव्यभिचारिपदं न दीयते तदा 'धूमवान्, वह्वेरिति व्यभिचारिण्यपि धूमसामानाधिकरण्यरूपसहचारस्य वह्नावपि सत्त्वादतिव्याप्तिः । अत उक्तमव्यभिचारीति । सहचर्यं साध्यसाधनयोः सामानाधिकरण्यम् । तथा च व्यभिचारिभावविशिष्टसाध्यसामानाधिकरण्यरूपा साध्यस्य हेतुनिष्ठापत्तिः । अनेकपदार्थघटितसामानाधिकरण्यरूपः सम्बन्धः, नत्वेक एव पदार्थ इति । गच्छति चेदं लक्षणं 'वह्निमान्, धूमात्'-इत्यत्र । -यथा वयभाववद्धृत्तित्वे सति वह्निसामानाधिकरण्यं धूमे,-वह्निनिरूपिता व्याप्तिः । न चेदं व्यभिचारिणि गच्छति । तत्र धूमाभाववद्वृत्तित्वे सति साध्यसामानाधिकरण्यं नास्ति । वह्नेः धूमाभाववत्यपि वृत्तिमत्त्वात् । तथा चायं लक्षणार्थ:-साध्याभाववद्वृत्तित्वे सति १. B -सहकृतसाधनसिषा.. २. A लिङ्गमिति.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org