________________
तर्कतरङ्गिणी
७९ साध्यसामानाधिकरण्यम् । 'सत्यन्तमात्रोपादानेऽऽकाशेऽतिव्याप्तिः । तद्वारणार्थम् । यथाऽयं वह्निमान आकाशात्,' इत्यत्र स्वरूपासिद्धेऽतिव्याप्तिः । तस्यापि साध्याभाववत्त्यवृत्तित्वात् तस्यावृत्तिपदार्थत्वात्। अत उक्तं साध्यसामानाधिकरण्यपदम् । सत्यन्तं व्यभिचारिण्यतिव्याप्तिवारणायेति ।
ननु नियम एव व्याप्तिः, व्यर्थं साहचर्यपदमिति चेत् न । सिद्धस्य साहचर्यपदस्य गतिश्चिन्तनीयेति न्यायात् । नियमपदेन व्यभिचारमात्रं बोध्यते । साहचर्येण च सामानाधिकरणमात्रम्, उभाभ्यां मिलित्वा व्याप्तिर्बोध्यते । तथा च व्यभिचारः । भावविशिष्टसाध्यसामानाधिकरण्यं व्याप्तिरिति भावः । नियमपदार्थं विचारयति-नन्विति स्वशब्देन हेतुः धूमादिः । तत्समानाधिकरणो योऽत्यन्ताभावो घटादीनां तदप्रतियोगि यत्सामानाधिकरण्यं तदधिकरणाधिकरणत्वहेतुनिष्ठा व्याप्तिः । गच्छति चेदं 'वह्निमान् धूमात्' इत्यत्र धूमसमानाधिकरणो योऽत्यन्ताभावो हृदत्वादीनां तदप्रतियोगित्वं साध्येवह्नौ, तद्विशिष्ट-अप्रतियोगिविशिष्टस्य वह्न: सामानाधिकरण्यं वयधिकरणत्वरूपं धूमे तिष्ठति। न गच्छति चेदं व्यभिचारिणि 'धूमवान् वह्ने:'-इत्यत्र वह्निसमानाधिकरणोऽत्यन्ताभावो यथा द्रव्यत्वादीनां वर्तते तथा धूमस्यापि; तदप्रतियोगी धूमो न भवति । तथा तप्तायोगोलके धूमात्यन्ताभावसत्त्वात्प्रतियोगित्वमेव धूमस्येति धूमनिरूपिता वह्निनिष्ठा न व्याप्तिः ।
नन्वत्र स्वपदेन साध्यमेव 'कथं न स्वीकर्तव्यमिति चेत्, न । व्यभिचारिण्यतिव्याप्तेः । ननु वह्निमान् धूमात्'-इत्यत्र सद्धहेतावव्याप्ति, धूमसमानाधिकरणो वढेरत्यन्ताभावः६, तथाहि धूमाधिकरणेधूमावयवे वढेरत्यन्ताभावसत्त्वेन तदप्रतियोगिभावात् वह्वेरिति चेत्, न । हेतुतावच्छेदकसम्बन्धो न हेत्वधिकरणो ग्राह्यः । प्रकृते तु हेतुतावच्छेदकसम्बन्धो संयोगसम्बन्धः । तेन सम्बन्धेन धूमाधिकरणे महानसादौ वढेरत्यन्ताभावो नास्ति । वर्तते च घटादीनाम् । तदप्रतियोगित्वं वह्रावस्तीति नातिव्याप्तिः । येन सम्बन्धेन हेतुः क्रियते सः सम्बन्धो हेतुतावच्छेदक इति । ननु तथापि तत्रैवाव्याप्तिः । कथम् ? संयोगसम्बन्धेन धूमाधिकरणे महानसादौ वह्नः समवायसम्बन्धेनात्यन्ताभावसत्त्वेन वह्नः तत्प्रतियोगित्वात्, यद्यपि महानसादौ संयोगसम्बन्धेन वह्निस्तिष्ठति तथापि समवायसम्बन्धावच्छिन्नप्रतियोगिताकोऽभावो वह्ने—माधिकरणे तिष्ठतीति चेत्, न। तर्हि साध्यतावच्छेदकसम्बन्धेन यस्य कस्याप्यभावो हेतुतावच्छेदकसम्बन्धेन हेत्वधिकरणे ग्राह्यः । प्रकृते तु साध्यतावच्छेदकसम्बन्धो भवति संयोगसम्बन्धः । हेतुतावच्छेदकसम्बन्धोऽपि संयोगसम्बन्धः । मिभैरप्ययमेवार्थो ग्राह्यः ।
सामानाधिकरण्यं प्रविष्टसम्बन्धपदेनोच्यते । अयमर्थः-यथा ग्राह्यं यत्सामानाधिकरण्यं तत्र प्रविष्टोऽयं सम्बन्धः । तेन सम्बन्धेन हेत्वधिकरणे तेनैव ग्राह्यः, सामानाधिकरण्यप्रविष्टसम्बन्धेनाभावो १. B असत्यन्त. २. B omits अतः. ३. B repeats गतिश्चिन्तनीया. ४. B -करणरूपं. ५. B तत्कथं. ६. A भावोऽस्तीति.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org