________________
८४
तर्कतरङ्गिणी धूमाधिकरणप्रसिद्ध्या वह्यभावविशिष्टहेत्वधिकरणावच्छेदेन धूमो वा।ऽस्तीति वाच्यम् । धूमाधिकरणस्यापि कालिकसम्बन्धेन वल्यभावाधिकरणत्वात् जन्यमात्रस्य कालोपाधित्वात् । यथा वल्यभावेन समं काल एव सम्बन्धः-इदानीं वल्यभाव इत्यत्रास्मिन्क्षणे वल्यभावः प्रतीयते । तथा च 'पर्वतादीनामपि क्षणत्वात् पर्वतवतित्वं वयभावस्य वर्तत एव । तथा च 'वह्निमान् धूमात्'इत्यत्रैव नाव्याप्तिरिति समाधानम् । तथा च यत्समानाधिकरणात्मा ज्ञानात्, इत्यत्रैवाव्याप्तिरिति ध्येयम्। यत् पदं हेतुतावच्छेदकावच्छिन्नपरं तेन द्रव्यं गुणकर्मान्यत्वविशिष्टसत्त्वादिति सिद्धेतौ नातिव्याप्तिः । अन्यथा हेत्वधिकरणे गुणे साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकप्रतियोगिताकाभावो भवति । यथा 'यत्र यत्र द्रव्यत्वावच्छिन्नं द्रव्यत्वं तत्र तत्र द्रव्यत्वत्वावच्छिन्न प्रतियोगिताकाभावप्रतियोगि' तत्सामानाधिकरण्यं द्रव्यत्वाभावविशिष्टगुणकर्मान्यत्वविशिष्टसत्ताधिकरणावच्छेदेन नास्तीत्यव्याप्तिरेव स्यात् । तद्वारणार्थं हेतुतावच्छेदकावच्छिन्नपरं 'यत्'-पदं कृतम् । तथा च हेतुतावच्छेदकं गुणकर्मान्यत्वं-तद्विशिष्टं यत्सत्त्वम्, तदधिकरणादिकं गुणादिकं न भवयत्येव । भवति च द्रव्यमेव । तथा च हेतुतावच्छेदकावच्छिन्नहेत्वधिकरणे द्रव्ये साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकप्रतियोगिताको भवति घटत्वेन द्रव्यत्वाभावः । यथा-'यत्र यत्र द्रव्यत्वावच्छिन्नं द्रव्यत्वं तत्र तत्र]घटत्वेन द्रव्यत्वाभावप्रतियोगिद्रव्यत्वं रूपं-' तत्सामानाधिकरण्यं हेत्वधिकरणावच्छेदेन गुणकर्मान्यत्वविशिष्टसत्त्वे तिष्ठतीति नातिव्याप्तिः ।
वस्तुतस्तु यदि 'यत्'-पदं हेतुतावच्छेदकावच्छिनपरं न क्रियते तदा-'इदमाकाशम्, अष्टद्रव्यातिरिक्तद्रव्यत्वात्,' इत्यत्रैवाव्याप्तिः स्यात् । न पूर्वत्रानुमाने । ननु प्रतियोगितायां साध्यतावच्छेदकावच्छिनव्यापकतावच्छेदकत्वं किमिति चेत्, अत्राहु:-"वह्निमान धूमादिति अत्र यो वर्तते घटत्वेन वह्नयभावस्तत्प्रतियोगिता वह्निनिष्ठा । तत्र तादृशावच्छेदकत्वं साध्यमिदं वह्नित्वावच्छिन्नवह्निसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकत्वम् । तथा च वह्नित्वावच्छिनवयधिकरणो-घटत्वेन वयभावप्रतियोगिता या वर्तते वह्नौ, तया प्रतियोगितया-व)रभावो नास्ति । वयधिकरणे प्रतियोगिताव(व)शिष्टस्य वह्नः सत्त्वात् । वर्तते च वह्निसमानाधिकरणोऽत्यन्तोभावो हृदत्वादीनाम् । तस्य प्रतियोगितानवच्छेदिका वह्निनिष्ठा प्रतियोगिता जाता। इदमेव व्यापकतावच्छेदकत्वं तत्र तिष्ठतीति सर्वत्रैव साध्यतावच्छेदावच्छिन्नसाध्यसामानाधिकरणात्यन्ताभाव-प्रतियोगितानवच्छेदकत्वमेव । तादृशसाध्यव्यापकतावच्छेदकत्वं नियूंढमिति दिक्।
तथा चेदं लक्षणं व्यधिकरणधर्मावच्छिन्नाभावघटितं जातम् । एतन्न संभवति । व्यधिकरणधर्मावच्छिन्नाप्रतियोगिका भावानङ्गीकारात् ।
१. B सम्बन्धे and A omits काल एव. २. and ३. B omits च. ४. B -हेतो. ५. This प्रतीक comes after the six प्रतीकs that follow in the available text of त. भा. प्र. ६. B -त्वमिति वह्नित्वा..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org