________________
८०
तर्कतरङ्गिणी ग्राह्य इति गीयते । प्रकृते तु ग्राह्यं यत्सामानाधिकरण्यं वह्निनिरूपितं-धूमनिष्ठं सामानाधिकरण्यम्, तत्र प्रविष्टो यो सम्बन्धः-संयोगसम्बन्धः । तथा च यत्र संयोगसम्बन्धेन धूमस्तत्र संयोगसम्बन्धेन वह्निरिति । तथा च संयोगसम्बन्धेन धूमाधिकरणे महानसादौ यो योऽत्यन्ताभावस्तदप्रतियतोगित्वं वह्नावस्तीति नातिव्याप्तिरिति।
ननु तथाप्यत्रैव सद्धेतावव्याप्तिः । संयोगसम्बनधेन धूमाधिकरणे महानसादावपि तार्णातार्णोभयवयभावो वर्तत एव । तथा चोभयत्वावच्छिनप्रतियोगिकाभावप्रतियोगित्वाद्वहनेव्याप्तिरिति चेत् न । अभावस्य प्रतियोगिव्यधिकरणविशेषितत्वात् । तथा च प्रतियोगिव्यधिकरणहेतुसम्बन्धेन हेत्वधिकरणवृत्तिसाध्यतावच्छेदकसम्बन्धेनात्यन्ताभाव-प्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः । प्रतियोगिवैयधिकरण्यं च प्रतियोग्यधिकरणानधिकरणत्वम् । 'वह्निमान् धूमात्', इत्यत्र धूमाधिकरणे यः तार्णातार्णोभयवल्यभावो वर्तते सः प्रतियोगिव्याधिकरणो न भवति । यद्यपि तार्णातार्णोभयत्वं प्रतियोगितावच्छेदकं तथापि प्रतियोगी तु वह्निसामान्य एवैति वयधिकरणे यो वह्नरत्यन्ताभावः स तु प्रतियोगिसमानाधिकरण एवेति नाव्याप्तिः ।
ननु वा भूतत्वमूर्तत्वोभयवत् मूर्तत्वादित्यत्र व्यभिचारिण्यतिव्याप्तिः कथमिति चेत्, मूर्तत्वसमानाधिकरणप्रतियोगिव्यधिकरणभूतत्वमूर्तत्वोभयाभावो न भवति । मूर्तत्वाधिकरणे मनसि यद्यपि भूतत्वमूर्तत्वोभयत्वावच्छिनप्रतियोगिताकाभावो वर्तते तथापि सन् प्रतियोगिव्यधिकरणो मनसि मूर्तत्वरूपप्रतियोगिनः सत्त्वात् । तथा चायं प्रतियोगिसमानाधिकरण एवाभावः । प्रतियोगिव्यधिकरणाभावस्तु मूर्तत्वाधिकरणे मनसि गुणत्वादीनामेव, तदप्रतियोगित्वं च भूतत्वमूर्तत्वोभयं भवति, तत्सामानाधिकरण्यं मूर्तत्वे वरीवति । तता चोक्तं व्यभिचारिण्यतिव्यासिरिति चेत्, न । प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिव्यधिकरणस्य विवक्षितत्वात् । उक्तव्यभिचारिणि च यद्यपि मूर्तत्वाधिकरणे मनसि यो वर्तते भूतत्वमूर्तत्वयो उभयाभावः, स प्रतियोगिव्यधिकरणो न भवति मूर्तत्वस्य प्रतियोगिनः त्वत्र सत्त्वात्, तथापि प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिव्यधिकरणो भवत्येव । प्रतियोगितावच्छेदकं चोक्तरूपोभयत्वम् । तदवच्छिन्नमुभयं भूतत्वमूर्तत्वरूपम् । तेन सममसमानाधिकरणो भूतत्वमूर्तत्वोभयाभावो भवति । तत्प्रतियोगित्वं चोभस्येति नातिव्याप्तिः ।
ननु तथापीदं जलादिद्रव्यं गुणकर्मान्यत्वविशिष्टसत्त्वादित्यत्र सद्धेतावव्याप्तिः । यत्र गुणकर्मान्यविशिष्टं सत्त्वं तत्र द्रव्यत्वमस्त्येवेति सद्धेतुः । अव्याप्तिर्यथा-हेत्वधिकरणे गुणादौ यथा घटत्वादीनामत्यन्ताभावो वर्तते, तथा प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगि-व्यधिकरणद्रव्यत्वसाध्यात्यन्ताभावोऽपि वर्तते । गुणे यो द्रव्यत्वाभावो वर्तते सः । प्रतियोगितावच्छेदकं यद्रव्यत्वं तदवच्छिन्नं भवति द्रव्यम्, तेन समं व्यधिकरणो भवति गुणनिष्ठो द्रव्यत्वाभावः । तत्प्रतियोगित्वं च १. B repeats this line between तथा च....वह्निरिति । Perhaps a scribal error. २. B द्रव्यरूप.. ३. B गुण. ४. There might be some word like तथैव after सः in order to complete the reference.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org