Book Title: Siddhachakra Mmahapujan Vidhi
Author(s): Arvindsagar
Publisher: Arunoday Foundation

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra ४ www.kobatirth.org 1 Acharya Shri Kailassagarsuri Gyanmandir ।। चोवीशी बीजी ।। श्रीमते सिद्धचक्राद्य - बीजाय परमार्हते । नत्वा तत्पूर्वसेवाया- स्तपोविधिरथोच्यते । ।१ ।। आश्विनस्य सिताष्टम्यां निर्दोषायां यथाविधि । कृत्वा श्रीसिद्धचक्रार्चा- माद्याचाम्लो विधीयते ।।२ ।। ततश्चाष्टानिकोत्सवं, कृत्वाऽऽशु नवमे दिने । कृते पञ्चामृतस्नात्रे, ह्याचाम्लो नवमो भवेत् । । ३ । । एवं चैत्रे नवाचाम्ला, भवन्त्येव निरन्तराः । ततोऽर्धपञ्चवर्षेषु, सम्पूर्णं पूर्यते तपः । । ४ । । एकाशीतिर्भवत्येव-माचाम्लानामिहाथवा । अशक्तैरेकभक्ताना- मेकाशीतिर्विधीयते । ।५ ॥ इत्थं श्रीसिद्धचक्रस्य, तपः कृत्वा ह्युपासकैः । कार्यमुद्यापनं तस्य, यथाशक्त्या विवेकिभिः । । ६ ।। मण्डलं सिद्धचक्रस्य, चैत्यादौ शुद्धभूतले । सन्मन्त्रपूतैः पञ्चाभ- धान्यैरालिख्यते स्फुटम् ।।७।। तत्रार्हमिति बीजोर्ध्व स्थापितप्रतिमाऽग्रतः । स्थाप्यं सन्नालिकेरस्य सखण्डाज्योरुगोलकम् । । ८ ।। श्री सिद्धचक्र महापूजन विधि सिद्धाद्यष्टदल श्रेणि-रपि पूज्या च गोलकैः । शर्करालिङ्गकैरर्च्या, षोडशानाहतावली । । ९ ।। For Private And Personal Use Only द्राक्षाश्चैकोनपञ्चाश-दष्टवर्गाक्षरोपरि । बीजपूराष्टकं सप्ता-क्षरमन्त्रेषु मण्डयेत् ।।१०।।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125