________________
सुनिराजकृतायाः]
भूमिका चतुःसङ्ख्यायाः स्वीकारे '१६४१तमोऽब्दो रचनासमयः स्यात् , एष एव निर्धारितो 'जैन गूर्जरकविओ'संज्ञके पुस्तके ( पृ० ३१९), परन्तु न चायं समीचीनः पन्था: श्रीविजयदेवसूरीणां यौवराज्ये तद्विधानोल्लेखात् । इदमुक्तं भवति-विजयदेवेतिसुगृहीतनामधेयैः १६४३तमे वैक्रमीयाब्दे दीक्षा कक्षीकृता । त्रयोदशसंवत्सरान्तरं ( १६५६ तमेऽब्दे ) तु तैः सूरिपदं प्रापे । अनेन १६४१ तमोऽब्दः रचनासमय इति सर्वथाऽघटनीया घटना । ननु एवं सति आनन्दकाव्यमहोदधेः सप्तमे मौक्तिके (पृ० ११३, १२६) १६६४ इति यो रचनासमयो निरदेशि स स्वीक्रियताम् । नैव, एतत्स्वीकारे क्षतिर्विद्यते, यत इन्दुरसाब्धीन्दुशब्दतः एषा कल्पनापि दुर्घटा । किं पुनः तत्मामाण्यम् ? । अस्यां परिस्थित्यां चतुःसङ्ख्यासुचकोऽब्धिशब्दः सप्तसङ्ख्यावाच्यपि वर्तते इति लक्षीकृत्य रचनासमयः:१६७१ इति निर्धार्यते (पण्डितवर्यैः श्रीयुतलालचन्द्ररयमेव समयो 'जेसलमीरभाण्डागारीयग्रन्थानां सूच्यां निर्धारितः) । १६७१तमे वर्षे वृत्तिरचनास्वीकारे न कोऽपि दोषः, अतः श्रीविजयसेनंसूरिसत्तासमयस्तु १६७२तमाब्दपर्यन्तः ।
श्रीशोभनस्तुतिवृत्तिप्रशस्त्येदमपि स्फुटीभवति यदुत श्रीमन्तो भवन्तोऽन्तेवासिनः श्रीदेव
१ अस्मिन् वर्षे विजयादशम्यां शुक्रवारे उग्रसेनेति नगरे आग्रेति सुप्रसिद्ध जयविजयचोपाई'नाम्नी कविता गुम्फिता गूर्जरगिरायां श्रीकल्याणधीरवाचकशिष्यैः श्रीमद्भिः धर्मरत्नैः खरतरगच्छीयैः श्रीजिनमाणिक्यसूरिशिष्यश्रीमाणिक्यमन्दिरपशिष्यैः इति ज्ञायते 'जैन गूर्जर कविओ'नामकस्य ग्रन्थस्य २६७-२६८तमपृष्ठावलोकनेन । टीकाकारनामादिसमानतासूचिकेयं कविता, अत एषा टिप्पनी ।
२ डॉ. रामकृष्णभाण्डारकरस्य Report on the search for Sanskrit Mss. in the Bombay presidency ( 1883-84) नाम्नि पुस्तके ( P. 7) समयोऽयं निरदेशि इति ज्ञायते निम्नलिखितोल्लेखावलोकनेन, परन्तु स भ्रान्तिमूलकः ।।
___ "The date of the composition of the commentary as given in verse 2 (1) is Samvant 1461. But Vijayasena died in Samvat 1671 and Vijayadeva was made a suri in 1656 (Ind. Ant. p. 256 ). So Samvat 1461 cannot be the true date of the composition. The true date must be somewhere about 1664 as given at p. 156."
३ अस्मिन् वर्षे वैशाख शुक्लतृतीयायां श्रीविजयसेनसूरिभिः ' अमदाबाद 'नगरे सागराणां समस्ता ग्रन्था अप्रामाणिका इत्युद्धोषणा कारिता । तत्खण्डनतत्परौ श्रीनेमिसागर-श्रीभक्तिसागरौ गच्छाद् बहिष्कृतौ पण्डितवयः ।
४ यद्यपि ग्रन्थेऽस्मिन् ६७तमे पृष्ठाडू. १६७० इति मुद्रितं वर्तते, तथाप्ययं मुद्रणदोष इति मह्यं निवेदितं पण्डितवर्यैः ।
५ प्रशस्तिसङ्महे (यतिश्रीलालचन्द्रभाण्डागारस्य) अभिधानचिन्तामणिप्रान्ते ५२तमायां प्रशस्तो श्रीदेवविजयाना सहिजश्रीनाम्नी साध्वी इत्युल्लेखः, स चायम्
___“ संवत् १६४० वर्षे चैत्रमासे शुक्लपक्षे पञ्चमीशुक्रवारे लिषि(खि तोड)यं ग्रन्थः श्रीमालीज्ञातीयभणसालिजगमालभार्याश्राविकादाडिमदेलिखापितं नवानगरमध्ये पण्डितश्रीदेवविजयजीसाध्वीसहिजश्रीपठनार्थम् ।"
__अत्रेदमवधार्य यदुत इमे श्रीदेवविजयाः प्रस्तुता न वेति न निश्चीयते सप्तदशशताब्यां देवविजयनामधारि. नानामुनीश्वरसम्भवात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org