Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 470
________________ जिनस्तुनयः।] स्तुतिचतुर्विशतिका २७५ चरणौ यस्य स तथा तस्य संबोधनं हे नम०। हे ' धरित्रीकृतावन ।' परिम्या:-मुषः, कश्चिदमेदात् धरित्रीगतलोकस्येत्यर्थः, कृत-विहितं अवनं-रक्षणं येन स तथा तस्य संबोधन हे धरित्रीकृतापन !" " धात्री धरित्री धरणी " इति हैमः ( का० ४, श्लो०१)। है । असङ्गमोद !सङ्ग:-ज्यादिसंसर्गः मोदो-धनादिप्राप्त्या प्रीतिः, सङ्गश्च मोदश्व सामादौ । इतरेतरद्वन्द्वः', ताभ्यां रहितोवर्जितस्तत्संबोधनं हे असङ्गमोद ! । हे अनङ्गन !! अगनाः--नार्यस्तामिः रहितस्तस्य संबोधनं हे अनगन ।। कथम् ।। अनवरते-निरन्तरम् । हे अरत 1-असक्त ।। हे । अरोदित" न विद्यते रोदितं यस्य स तथा तस्य (सं० हे अरो०) । हे 'आर्याव !' आर्यान्-आर्यलोकान् अवति-रक्षति स तथा तस्य सं० हे आर्याव ! । हे हित !-हितकारिन् ! । ' दधातेहिः' ( सा० स० १३०१)॥१॥ ___ सौ० वृ०-श्रीवृषभाधाः पान्तिा जिना यथार्थनामानः स्तुताः । एते सर्वेऽपि वर्धमानज्ञानदर्शनादिचरित्राद्यनेकगुणा भवन्ति । अनेन सम्बन्धेनायातस्य चतुर्विशतितमश्रीवर्धमाननानः देवैः कृतापरनामश्रीमहावीरनामजिनस्य स्तुतेर्व्याख्यान विधीयते-नमदमरेति। हे 'वीर' ! हे श्रीमहावीर ! विशेषेण स्ववीर्ये-स्वात्मस्वभावे(१) स्वभावे ईरयति-प्रेरयति इति वीरः तस्य सं० हे वीर ! । पुनः नमन्त:-प्रणमन्तः ये अमरा-देवाः तेषां शिरोरुहा:-केशा:-चिकुराः तेभ्यः सस्ता:पतिताः सामोदाः आमोदा-सुगन्धः-परिमलः तेन सहिताः सामोदाः निर्निद्रा-विकसिता-विकस्वरा मन्दाराणां-देवतरूणां-कल्पवृक्षाणां या माला:-स्रजः तासा रजार्सि-परागाः तैः रश्रितो-पाटलीकृती अंही-चरणौ यस्य स नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरधिताहिः, तस्य सं० हे नमः वमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरनिताहे! हे धरित्रीकृतावन !' आधाराधेयोपचाराद् धरित्री-पृथ्वी तस्यां स्थिता ये जन्तवः पदार्था वा तेषां कृतं-विहितं अवनं-रक्षणं येन स धरित्री. कृतावनः, तस्य सं० 'हे धरित्रीकतावन !' हे 'असङ्गमोद' ! नास्ति (न स्तः) सङ्गः-प्रसङ्गः पोदःइष्टप्राप्तिलक्षणो हर्षः तौ द्वौ यस्य सः असमोदः, तस्य सं० हे असङ्गमोद! । 'अरत !' न विद्यते रतं-सुरतं यस्य सः अरतः, तस्य सं० हे अरत ! । हे 'अरोदित'! हे अरोदन । [हे "अनङ्ग!' हे अदेह !] । भवान्-त्वं मे-मम निर्वाणशर्माणि-मोक्षसुखानि अनवरत-निरन्तरं वितरतु इत्यन्वयः। 'वितरतु' इति क्रियापदम् । कः कर्ता । 'भवान्' । 'वितरतु' ददातु । कानि कर्मतापनानि ? । 'निर्वाणशर्माणि' । कस्य ? । 'मम' । कथम् ! । 'अनवरतम्' । किंविशिष्टो भवान् । वरतमःप्रधानतरः सङ्गमाख्यो वैमानिको देवः तस्य उदारा-स्फारा तारा-कनीनिका उदितं-शब्दं अन:कामः यासां ताः तादृशा नार्यः-स्त्रियः तासां आवली-श्रेणिः तस्या लापः देहः-शरीरं ईक्षितंकटाक्षावलोकनं तैः कृत्वा अमोहितानि-न व्यामोहें प्राप्तानि अक्षाणि-इन्द्रियाणि यस्य स वरतमसगमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षः । पुनः किंविशिष्टो भवान् ? । 'जातावतारः' कृतावतारः, प्राप्तजन्मा । कस्मिन् ? । धरा-पृथ्वी तस्या अधीशः-स्वामी यः सिद्धार्थनामा तस्य धामगृहं तस्मिन् 'धराधीशसिद्धार्थधानि किविशिष्टे धराधीशसिद्धार्थधाम्निक्षमा-पृथ्वी तस्यां अलङ्कतीअलङ्कारभूते क्षमालङ्कतौ । पुनः किंविशिष्टे धराधीशसिद्धार्थधाम्नि? । लीला-विलासः तस्याः पदं-स्थानं लीलापदं तस्मिन् लीलापदे । पुनः किंविशिष्टो भवान् ? । 'क्षितामः' क्षिताः-गताःआमाः-रोगा यस्मात् स क्षितामः। हे 'अननगन !' अङ्गना-नायः ताभी रहितः (तस्य सं०) अन०। हे 'आयोव!' आयोन-आर्यलोकान् अवति-रक्षति यः स आर्यावः तस्य सं० हे आर्याव! । हे 'हित!' हितकारिन् !। पुनः किंविशिष्टो भवान् ? । न विद्यते क्षोमो यस्यासौ अक्षोभवान् । इति पदार्थः ।। १ अयं पाठः प्रामादिकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562