Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 482
________________ जनत स्तुतिचतुर्विंशतिका स जननसृतितरङ्गः, पारानिर्गत इति निष्पारः, संसरणं संसारः, नीराणां आकरः नीराकरः, संसार एव नीराकरः संसारनीराकरः, निष्पारश्चासौ संसारनीराकरश्च निष्पार संसारनीराकरः, (जननमृतितरङ्गचासौ निष्पारसंसारनीराकरश्च ) जननमृतिरङ्गनिष्पारसंसारनीराकरः, जननमृतितरनिष्पारसंसारमीराकरस्य अन्तः जननमृतितरङ्गनिष्पार संसारनीराकरान्तः, जननमृतितरङ्ग निष्पार संसारनीराकरान्तनिमज्जन्तः (जनन०), जननमृतितरङ्गनिष्पारसंसारनी करान्तर्निमज्जन्तश्च ते जनाश्च जननमृतितरङ्गनिपारसंसारनीरा करान्तर्निमज्जज्जनाः, जननमृतितरङ्गनिष्पारसंसारनी करान्तर्निमज्जज्जनानां उत्तारः जनन०निमज्जज्जनोत्तारः, जननमृतितरङ्ग० निमज्जज्जनोत्तारे नौरिव नौः जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौः । तीर्थ करोतीति तीर्थकृत्, तस्य सं० हे तीर्थकृत् ! । मतिर्विद्यते यस्यासौ मतिमान् तस्मै मतिमते । तापस्य दानं तापदानं, तत् तापदानम् । इति तृतीयवृत्तार्थः ॥ ३ ॥ दे० व्या०—परमतेति । हे तीर्थकृत् ! तीर्थं चतुर्विधः सङ्घः प्रथमगणधरो वेति बोध्यम् । ते-तव भारती -वाणी निकाय्ये-गृहे अर्थात् मोक्षे वासं निवासं वितीर्यात् ( तरां ) ( अतिशयेन ) दद्यात् इत्यन्वयः । ' तू लवनतरणयोः' धातुः । 'वितीर्थात् ( तरां )' इति क्रियापदम् । का कर्त्री ? | भारती । कस्य ? | ते - तव । कं कर्म - तापन्नम् ? । वासम् । कस्मिन् ? | निकाय्ये | “निकाय्यो भवनं कुटः " इत्यभिधानचिन्तामणिः ( का० ४, श्लो० ५६ ) । किंविशिष्टे निकाय्ये ? । ' विश्ववर्ये विश्वस्मिन् वर्ये - समीचीने । पुनः किंविशिष्टे ? | अहतिमति- अविद्यमानहनने । पुनः किंविशिष्टे ? । ' अतिमते ' अतिशयेन मते- वाञ्छिते । हि स्फुटम् । पुनः किंविशिष्टे ! । महाते - विस्तीर्णे । किंविशिष्टा भारती ! | ' परमततिमिरोग्र भानुप्रभा । परमतमेव तिमिरं - अन्धकारं तस्मिन् उग्रभानोः - सूर्यस्य प्रभा इव प्रभा - कान्तिः । पुनः किंविशिष्टा । गभीरा-अलधमया । कै: ? । भूरिभङ्गैः । भूरयो - भूयिष्ठा ये भङ्गा - विकल्पाः तैः । कथम् ? । भृशम् - अत्यर्थं यथा स्यात् तथा । पुनः किंविशिष्टा ? ' जननमृतितरङ्गनिष्पार संसारनी। करान्तर्निमज्जज्जनोत्तारनीः जननं च मृतिश्चेति 'द्वन्द्वः' । त एव तरङ्गाः - कल्लोला यस्य स चासौ निष्पार:- अलब्धप्रान्तो यः संसारनीराकरः संसार एव समुद्रः तस्यान्तर्-मध्ये निमज्जन्तो ब्रुडन्तो ये जना-लोकाः तेषां उत्तारे-तीरप्रापणे नौरिव नौः - द्रोणी । पुनः किंविशिष्टा ? । 'मानस्य वा संसत् मानस्य पूजायाः संसदिव--सभेव । अत्र वाशब्दः इवार्थे भिन्नक्रमश्च । पुनः किंविशिष्टा ? । आतन्वती - विस्तारयन्ती । किम् ? तापदानं सन्तापखण्डनम् ( दो अवखण्डने )। किंविशिष्टस्य ? | ते-तव ईशस्य - स्वामिनः । पुनः किंविशिष्टस्य ? | शस्यमानस्य - स्तूय मानस्य । कथम् ? | सदा निरन्तरम् । किंविशिष्टस्य ? | आनन्दधानस्य- प्रमोदस्थानस्य । सेति भारत्या विशेषणम् । पुनः किंविशिष्टस्य ? | 'अमानिनः' निरभिभूयिष्ठा (?) अतन्वतीतापत् ! इति । अतनवः - महत्यः अतीता - अतिक्रान्ता आपदो येन स तस्यामन्त्रणम् । हे हित ! (कल्याण) कारिन् ! | कस्मै ? । 'मतिमते ' मतिर्विद्यते यस्यासौ मतिमान् तस्मै मतिमते, हितेति समग्रमेव वा जिनामन्त्रणम् ॥ इति तृतीयदण्डकार्थः ॥३॥ ++ श्री अम्बिकायाः स्तुतिः - सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसार क्रमाम्भोरुहे ! परमवसुतराङ्गजाऽऽरावसन्नाशितारातिभाराजिते भासिनी हारतारा बलक्षेमदा । क्षणरुचिरुचिरोरुचञ्चत्सटा सङ्कटोत्कृष्ट कण्ठोटे संस्थिते ! भव्यलोकं त्वमम्बा'म्बिके!' परमव सुतरां गजारावसन्ना शितारातिभा रोजिते भासि नीहारतारावलक्षेऽमदा॥४-२४॥ - अर्णव ० १-२ सम्बोधनार्थे वा ३ ' भासिनीहार० ' इत्यपि सम्भवति । Jain Education International १८७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562