Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पञ्चजिनस्तुतयः
भङ्गाः-पदार्थनिरूपणविकल्पाः यस्मिन् सः, तथा अरिभ्यः-शत्रुभ्यो यो भङ्ग:-पराजयः तस्मात् आ-समन्तात् त्रायते इति तथोक्तः, भूरिभङ्गश्चासौ अरिभङ्गात्रश्च, तम् । अत्र-इह । यद्वा भूरिभङ्ग इति आमन्त्रितपदम्, अरिभङ्गात् इति पञ्चम्यन्तं, त्रायते इति त्रः, तदामन्त्रणे । अमत्रंभाजनं, तदामन्त्रणे । अमत्याः-देवाः तेषाम् ऋद्धिः-सम्पत्तिः तस्याः । असमरसमयं-निरुपम रसप्रचुरम् । संवरः-आश्रवनिरोधः स एव अर्थः-प्रयोजनं यस्य सः, तम् । शम्-सुखं तस्य कोशो-निधानं, तम् । क:-को नाम ।रसित्वे-रसिकतायाम् अमरं-सजीवम्, मूर्तिमद्रसवन्तमित्यर्थः। यद्वा रसित्वेन-रसवत्वेन अमरं-प्रसिद्धम् । अमराः-देवाः महीराजाः-भूपतयः तेषां पातुं योग्यः, यद्वा राजशब्दो देवानां मह्याश्च प्रत्येकं सम्बन्धनीयः, ततश्च देवेन्द्रनरेन्द्रः पेयः-सादरं श्रवणाईः इत्यर्थः, तम् । जपेयं-जपविषयीकुर्यामित्यर्थः । मार:-कामः, स एव आमः-अपक्कः नवपल्लव इति यावत् आरामः-उपवनं तत्र वह्नि:-अग्निः तदामन्त्रणे । समयः-सिद्धान्तः, तदामन्त्रणे । समैः-सर्वैः यतिभिः-मुनिभिर्ध्यातः-चिन्तितः, तदामन्त्रणे । अतिशयेन रोहन्तः रोहत्तराः, रोहत्तराः ऊहा:तकोः यस्मिन् सः, प्रोद्भवत्तर्कपरम्पर इत्यर्थः, तदामन्त्रणे ॥ ७ ॥
रक्षोरक्षोद्यता मेऽमलयमलयवत्सायतीनां यतीनां
कल्याऽकल्याणराशिं हरतु हरतुषारांशुभासा शुभा सा ॥ मह्या मह्या श्रुताङ्गीह सितहसितरुग्हारिहाराऽरिहारा
सोमा सोमाननाऽऽरादवमदवमहाम्भोधराभा धराभा ॥ ८ ॥ रक्ष इति । रक्षोभ्यः-राक्षसाख्यव्यन्तरविशेपेभ्यो या रक्षा-परित्राणं तत्र उद्यता-कृतोद्यमा, बद्धपरिकरेत्यर्थः । मे-मम । अमलयमलयवन्तो-निर्मलपहावतध्यानवन्तश्च ते सायतयःसशुभोदकश्चि, तेषाम् । यतीनां-मुनीनाम् । कल्या-आरोग्यवती । यद्वा कलासु साध्वी कल्या। अकल्याणानाम्-अशुभानों राशि-समूहम् । हरतु-अपनयतु । हरो-महादेवः, तुषारांशुः-चन्द्रः तयोर्भा:-कान्तिरिव उज्ज्वला या कान्तिः तया शुभा-प्रशस्ता । यद्वा निशादिशादिवत् आकारान्तो भासाशब्दः, ततश्च हरतुपारांशुभासा इव भासा यस्याः सा, तथोक्ता । शुभा-शोभावती । सा-वक्ष्यमाणा श्रुतागी । मह्या-भूम्या लोकेनेत्यर्थः । मह्यापूजनीया । यद्वा मह्या भुवि, महा पूज्या । अनुस्वारेऽपि न यमझत्यहानिः सम्पता । श्रुतं-श्रुतज्ञानं तदेव अङ्ग-देहो यस्याः सा, श्रुताधिष्ठात्री देवी इत्यर्थः । इह-अत्र लोके । सितम्-उज्ज्वलं यद् हसितं-हास्यं तत्सदृशा रुचा-कान्त्या हारी-मनोहरो हारोमुक्तावली यस्याः सा, तथोक्ता । यद्वा सितहसितस्य रुचं हरतीति सितहसितरुग्हारी, एतादृशो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a3d0ea67f3e00d45db5a13a5f7a50f5b282ea4c1b99822b1c871af3f4ba977f5.jpg)
Page Navigation
1 ... 557 558 559 560 561 562