Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पञ्चजिमस्तुतयः हंसकल्पः-मरालपाला । यद्वा ईसकल्पो-ससदृशः। 'सकल्पः कल्पेन-आधारेण सह वर्तमानः । लेखा-पतिः । लेखाधिपाना-देवेन्द्राणाम् । असिता-कृष्णा या मसिः-कज्जलं तद्वत् तता-विस्तृता आभा-कान्तिर्यस्य सः, तम् । सन्-समीचीनः आयो-लाभो यस्य सः, तम् । सदा-निरन्तरम् । यं-तच्छब्दोपक्षिप्तम् । रन्तारं-रमणशीलम् । तारमुक्तौ-स्फारे शुद्ध वा मोक्षपदे । अरतेन-मैथुनाभावेन ब्रह्मचर्येणेत्यर्थः, वरा-श्रेष्ठा तनुः-शरीरं यस्य सः, तम् । सन्नवा-प्रणतवती । आसन्नतायां-सामीप्ये आस्ते तथोक्तः, तम् ॥ ४॥
यामायामादरोद्यविभव ! विभव ! सच्छोभदन्तं भदन्तं
रोषारोषार्क ! 'वीरा'ऽऽनतजनत! जवात् त्वामहेयं महेयम् । तं तातं तारमुक्ताऽद्भ ! गदभगरजःस्फीतवायो तवायो
दाराऽदाराऽस्ति यस्येह रणहरणगीरीतिवारातिवारा ॥ ५॥ बामेति । यामाना-चतुर्णा महाव्रतानां सम्बन्धी यः आयामो-विस्तारः, अधिकीकरणमिति याक्त, तत्र यः आदरस्तेन उद्यन् विभवः--परमैश्वर्यं यस्य सः, तदामन्त्रणे । अजितादिद्वाविंशतिजिनशासनवारके हि चत्वार्येव महाव्रतान्यासन् , तानि च प्रायो यामशब्दप्रासिद्धानि अभवन् , 'चाउज्जामो धम्मो' इत्याद्यागमवचनात् , भगवता च महावीरेण चतुर्यामस्थाने पञ्चमहाचतानि प्रज्ञप्तानि इति युक्तमुक्तं यामेत्यादि । विगतो भवः-संसारपरिभ्रमणं यस्य सः, तदामन्त्रणे। सती शोभा येषामेतादृशाः दन्ताः-दशनाः यस्य सः, तम् । भदन्त-कल्याणकारकम् । रोषस्य क्रोधस्य आरः-आगमनं स एव उपा-निशाऽन्तिमभागः तत्र अर्कः-सूर्यः, तदामन्त्रणे । वीरो-महावीरः, वर्धमानाभिश्चतुर्विंशतितमः तीर्थकर इत्यर्थः, तदामन्त्रणे । आनता-समन्तात प्रणता जनता-जनानां समूहो यं सः, तदामन्त्रणे । जवात-वेगात् । त्वां-भवन्तम् । अहे. यम्-अत्याज्यं, समादरणीयमित्यर्थः । महेयं-पूजयेयम् । तं-जगत्मसिद्धम् । तातं-पितरम् । तीर्थकरा हि भगवन्तः सर्वेषां हितकारकत्वेन पितृतुल्या एव भवन्ति । तारा:-पीवराः शुद्धा वा मुक्ताः-मौक्तिकानि अत्ति-भक्षयतीति तारमुक्ताद्-हंसः, तद्वद् भाति-शोभते इति तथोक्तः, तदामन्त्रणे । निर्मलतासाधम्र्येण हंसतुल्यतोक्तिः । गदा-रोगाः, भगं-कामः, तान्येव रजोसिधृलयः, तदपनयने स्फीत:-प्रवृद्धो वायुः, तदामन्त्रणे । तव-भवतः । अयेन-शुभावहेन विधिना उदारा-महती सरला वा । न दृणाति इति अदारा, अममेवेधिनीत्यर्थः । यस्य-वीरस्य । इह-अत्र जगति । रणो हियते यया सा, एतादृशी गी:-वाणी। ईतयः-विप्लवाः अतिवृष्टयादयः, तासा वार-समूहम् अतिवारयति-अतिशयेन दूरं करोति तथोक्ता, सर्वोपद्वनिवारिणीत्यर्थः ॥ ५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/46d454ba476ce8cd563bafeb8fbfa9196c1b3cf88eb9f68709d62121a93f4c82.jpg)
Page Navigation
1 ... 555 556 557 558 559 560 561 562