Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 555
________________ ૧૪ पञ्चजिन स्तुतयः तो :- सर्वकारणभूतस्य ज्ञानस्य मदाने, यद्वा ' हि गतौ ' इति गतिपदेनाऽत्र ज्ञानमुन्नेयम् । असुभिः - प्राणैः रताः असुरता :- प्राणिनः तेषां कृते सुरतरुः- कल्पवृक्षः, तदामन्त्रणे । भूतले - जगतीमण्डले । भूतः - सञ्जातः लेखो - गणनं कीर्तनमिति यावत् यस्य सः, तम् ॥ १ ॥ 'शान्ते !' शान्ते नेत्रोभय ! सभयसखं देहतारं हतारं नन्ताऽनन्ताऽत्र न त्वामरणमरण ! तं सत्कलौकः ! कलौ कः ? | लीलाऽऽलीलाः सुदारा विषयविषयमुद्धा सदक्षाः सदक्षाः येनाऽयेनाऽऽश्रितोच्चैरमलरमलभूदीप्रमुक्ताः प्रमुक्ताः ॥ २ ॥ शान्त इति । शान्ति:- षोडशस्तीर्थकरः, तदामन्त्रणे । शान्तं - प्रशमरसपूर्णम् इद्धं - दीपं च नेत्रोभयं - नयनद्वयं यस्य सः, तदामन्त्रणे । भयेन सह वर्तमानाः सभया:, तेषां सखा- मित्रं, भीताऽभयप्रदायक इत्यर्थः, तम् । देहेन तारो - महान्, यद्वा देहान् लक्षणया देहिनः तारयति - निस्तायति भवसमुद्राद् इति देहतारः, तम् । इतम् आरम् - अरीणां समूहो येन सः, तम् । नन्तानमस्कर्ता । न विद्यते अन्तो- विनाशो यस्य सः, तदामन्त्रणे । अत्र - इह जगति । न-नहि । त्वां - भवन्तम् । न रणे युद्धे मरणं यस्य सः, तदामन्त्रणे । तमिति तच्छब्दस्य द्वितीयान्तं रूपं त्वामित्यस्य विशेषणम् । शान्तिनाथो हि चक्रवर्त्यवस्थायामनेकानि युद्धानि कृतवान् तथाऽपि दूरे मरणवार्ता, पुण्यप्राग्भारप्रभावेण न क्वापि भङ्गन्मात्रमप्यनुभूतवान् । सतीनां समीचीनानां कलानाम् ओको - गृहं, तदामन्त्रणे | कलौ कलियुगे । कः - को नाम सचेताः । लीलानां - क्रीडानाम् आल्यःपङ्कयः ताः लान्ति - ददतीति लीलालीलाः । सुष्ठु दाराः सुदाराः - शोभन स्त्रियः । विषयाः-शब्दादय इन्द्रियार्थाः तद्विषयौ यो मुद्दासौ- प्रमोदहास्ये तत्र दक्षा:- चतुराः । सन्ति - शोभनानि अक्षाणि - इन्द्रियाणि येषां ते सदक्षाः । येन-उपरिवर्णितेन शान्तिनाथेन । अयेन- शुभावहविधिना । आश्रिताः- धृता उच्चैः - उत्तमानां तथा अमलानां निर्मलानां रमलानां लक्षणानां भुव:- उत्पत्तिस्थानरूपाः तथा दीप्राः - दीप्तिमत्यः मुक्ताः - मौक्तिकाभरणानीत्यर्थः यैस्तथोक्ताः । प्रमुक्ताःत्यक्ताः ॥ २ ॥ शरतेशस्तेज इद्धातिरिततः (नुः) शङ्खलक्ष्मा खलक्ष्मा दाता दाता ! लोकोत्तर ! वितर विभो ! ज्ञानबन्धोनबन्धो ! | सातं सातङ्कपुंसामनुपम ! नु पदं चारुधामोरुधामोऽमा- रामा-राग! 'नेमे !' समरसमरजः पानवायुर्नवायुः ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562