Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 553
________________ श्रीरविसागरमुनीशविरचिता । सिद्धायिकादेव्यै प्रार्थनाभविक भवि के भविक नय नय नयनोरुरश्मिराजिष्णुः । रामा रामाराऽऽमा सिद्धा सिद्धायिके ! सके ! ऽशङ्के ! ॥ ४ ॥ "कः सूर्यमित्रवाय्वग्नि--ब्रह्मात्मयमकेकिषु । प्रकाशवक्रयोश्चापि, कं नीरसुखमूर्द्धसु ॥" _इति सुधाकलशैकाक्षरी(श्लो० ९)वचनात् कं-सुखं तेन सह वर्तमाना सका तत्सम्बोधनं हे ' सके ! "शङ्का त्रासे वितर्के वा" (कद्वये श्लो० २५) इति विश्वलोचनवचनात् त्रासः वितर्को वा नास्ति यस्याः सा अशा तत्सबोधनं हे 'अशङ्के ! ।। हे 'सिद्धायिके !' सिद्धायिकानान्नि! देवि ! । त्वं भविक-भव्यप्राणिनं कं-सुखं नय प्रापय-इति सम्बन्धः । नीधातोईिकर्मकत्वं प्रसिद्धं 'वाच्ये 'वीप्सायां' (सिद्ध० ७-४-८०) इति द्विरुच्चारः। अथवा स्तुतौ पुनरुक्तिर्न दोषभाक् । उक्तं च-- " वक्ता हर्षभरादिभिराक्षिप्तमनास्तथा स्तुवन् निन्दन । यत् पदमसकृद् ब्रूयात् तत् पुनरुक्तं न दोषाय ॥" किंविशिष्टा त्वम् ? "सिद्धो व्यासा(ड्या)दिके देव--योनौ निष्पन्नमुक्तयोः । नित्ये प्रसिद्धे" इति हैम्यनेकार्थ का०२, श्लो० २६७.)वचनात् 'सिद्धा' प्रसिद्धा । पुनः किं० १ रामा-श्यामा, "स्याद् रामः श्यामलः श्यामः" इत्यभिधानचिन्तामणिः (का० ६, श्लो०३३)। पुनः किंविशिष्टा ? रामाः-स्त्रियः ताभिः राजते इति 'कचित् । (सिद्ध० ५-१-१७१ ) इति डप्रत्यये 'रामारा' । आ-समन्तात् मा--लक्ष्मीयस्याः सा 'आमा' । यद्वा रामा-चारुः रामा--स्त्री देवाङ्गन्नात्वेन । पुनः किं०? नयनयोः नेत्रयोरुरवो-विशालाः रश्मयः-किरणास्तैः राजिष्णुः--राजनशीला । किंविशिष्टं भविकम् ? भवः-श्रेयः यस्यास्तीति भवी, स्वार्थे कप्रत्ययः तं 'भविकम् । किंविशिष्टं कम् ? " भवः श्रीकण्ठसंसार-श्रेयः सत्ताप्तिजन्मसु ' इति विश्वलोचन( वद्वये श्लो० १७ )वचनात् 'भवि। श्रेयःसम्बन्धि सांसारिक वा इत्यर्थः । अभिप्रायानभिज्ञत्वात् , कर्तुष्टीकामृते मया। किश्चिद् यत्रोक्तमुत्सूत्रं, तन्मे मिथ्याऽस्तु दुष्कृतम् ॥ ॥ इति श्रीवीरस्तुत्यवचूरिः समाप्ता ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562