Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पञ्चजिनस्तुतयः हारो यस्याः सा । अरीन्-विनरूपान् शत्रून् हरतीति तथोक्ता । सोमा-शान्ता । श्रुतदेवता हि नान्यदेवता इव रुद्रप्रकृतिः, अपि तु प्रशान्तरूपैव प्रसिद्धा । सोम इव-चन्द्र इव आनन-मुखं यस्याः सा, तथोक्ता, चन्द्रवदना इत्यर्थः । आराद्-दूरात् । हरतु इति क्रियापदेन सह योज्यमारापदम् । अवमाः-अधमाः अर्थात् दुर्भिक्षादयो निकृष्टोपद्रवाः त एकः दवः-दावानलः, तत्र महाम्भोधराभा-महामेघसमाना । धराभा-पर्वततुल्या, धीरतायामित्यर्थः ॥ ८॥
देववन्दनादौ स्तुतिचतुष्कव्यवस्था चैत्यवन्दनभाष्यकारादिभिरेवं निरूपिता-प्रथमा स्तुतिः अधिकृतजिनस्य, द्वितीया सर्वजिनाना, तृतीया श्रुतज्ञानस्य, चतुर्थी च सम्यग्दृष्टिदेवतायाः । एवं च सति व्याख्याताभिरेताभिरष्टस्तुतिभिः पञ्च स्तुतिचतुष्काणि सम्पयन्ते, तथाहिप्रथमया स्तुत्या अन्तिमस्तुतीनां त्रयेण प्रथमं स्तुतिचतुष्कमादिनाथस्य, द्वितीयया अन्तिमाभिस्तिमृभिर्द्वितीयं शान्तिनाथस्य, तृतीयया अन्तिमत्रिकेण तृतीयं नेमिनाथस्य, चतुर्थ्या अन्तिमत्रितयेन चतुर्थं पार्श्वनाथस्य, पञ्चम्या तेनैव अन्तिमस्तुतित्रयेण च पञ्चमं महावीरजिनस्य स्तुतिचतुष्टयम् ॥
वेदवसुग्रहभू(१९८४)मितवर्षे चैत्रस्य शुक्लसप्तम्याम् ।
पदभञ्जनं स्तुतीनां हरजिपुरे पूर्णतामगमत् ॥ १॥ इति सुनिराजश्रीकल्याणविजयविरचितं पञ्चजिनस्तुतिपदभञ्जन पञ्जिकापरपर्यायं समाप्तम् ॥
१ गूर्जरदेशरीत्या १९८३ तमे हायने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/043ca2d81cff476e9d7f8f89fb1ebcf1938689e22ff00390c9e7ae7a9b4c9955.jpg)
Page Navigation
1 ... 558 559 560 561 562