Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 558
________________ पञ्चजिनस्तुतपः भोगाभोगासनाऽऽरादमलदमलया साधु नाना धुनानाऽ मानं मानं जिनालीह रतहरतरा मारमायारमायाः। दद्यादद्यानतानामदरमदरजाः साऽविनाऽशंविनाशं याऽपायापासनं प्रातनुत तनुतमःसञ्जनानां जनानाम् ॥६॥ भोगेति । भोगस्य-सुखस्य यः आभोगः-परिपूर्णता तम् अस्यति-क्षिपतीति तथोक्ता। आरादूरात् । अमलौ-निर्मलौ दमलयौ-इन्द्रियजयलीनते यस्याः सा, यद्वा अमले दमे लय:-एकतानता यस्याः सा । साधु-शोभनं तथा नाना-अनेकविधमिति क्रियाविशेषणद्वयम् । धुनाना-कम्पयन्ती। 'अमानं' न विद्यते मान-प्रमाणं यस्य सः, तम् । मानम्-अहङ्कारम् । जिनानाम् आली-पङ्क्तिः । इह-प्रत्यक्षे जगति । रतं-रमणं क्रीडनमिति यावत् हरतीति रतहरा, अतिशयेन रतहरा इति रतहरतरा । मारमायारमायाः-कामप्रपञ्चश्रियः । यद्वा मारमायाभ्या-कामकपटाभ्यां सहिता अरमा-अलक्ष्मीः दारिद्यमिति यावत् मारमायाऽरमा, तस्याः। रतहरतरेत्यनेन सम्बन्धः। दद्यात्कुयोदित्यर्थ: । अद्य-अत्र दिने । आनताना-प्रणतानाम् । न विद्यते दरो-भयं मदः-अहङ्कारः रजः-रजोगुणो यस्याः सा, तथोक्ता । सा जिनाली । अविनाभावि अशम्-असुखं दुःखमित्यर्थः अविनाऽशम्, व्यापकदुःखमिति यावत्, तस्य विनाश-निरन्वयो नाशः, तम् । यद्वा अविनाशम्अपुनरुत्पति, विनाशस्य विनाशो हि पुनरुत्पत्तिः, एतादृशं मारमायारमायाः विनाशं दद्यादिति योजना । या जिनाली । अपायाना-विधानाम् आसनं-निरसनं प्रातनुत-अकरोत् । तनु-कशं तमस:-अज्ञानस्य सञ्जनं-प्रसङ्गो येषां ते, तेषाम् । जनानां-जन्मभाना, प्राणिनामित्यर्थः ॥ ६ ॥ सजं सज्जन्तुरक्षे लयनिलयनिभं भूरिभङ्गारिभङ्गा घामत्रामर्त्यऋद्धेरसमरसमयं संवरार्थ वरार्थम् । शंकोशं को रसित्वामरममरमहीराजपेयं जपेयं मारामारामवढे! समय ! समयतिध्यात ! रोहत्तरोह ! ॥७॥ सजमिति । सज्ज-तत्परम् । सता-भव्यानां जन्तूना-पाणिनां रक्षे-रक्षायाम् । रक्षा हि द्विधा-प्राणरक्षणं दुर्गतिगर्तनिपातरक्षणं च, प्रथमपक्षे सदिति विशेषणमपार्थक, प्राणरक्षणं हि जिनागमेन सतामसतां सर्वेषामेवोपदिश्यते, न तु सताम, द्वितीयपक्षे तु तत् सार्थक, जिनागमेनाऽपि त एव दुर्गतिपातानिवर्तन्ते मोक्षपथे उत्सहन्ते च ये भव्याः परीतसंसारिणश्च, नेतरे । लयोलीनता ध्यानमिति यावत्, तस्य निलयो-निवासः, तेन निभा-सदृशः, तम् । भूरयः- बहवः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 556 557 558 559 560 561 562