Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 481
________________ स्तुतिचतुर्विंशतिका [ २४ श्रीवीर का कधी? । ' भारती' वाणी । 'वितीर्यात्तरां ' दद्यात्तराम्-अतिशयेन दद्यात् । कं कर्मतापनम् १ । ' निवास ' स्थानम् । कस्मिन् ? । 'निकाय्ये ' भवने । " निकाय्यो भवनं कुटः " इत्यभिधानचिन्तामणि: (का० ४, श्लो० ५६ ) । किंविशिष्टे निकाय्ये ? | 'विश्ववर्ये' विश्वं जगत् तस्मिन् वर्यप्रधानं विश्ववर्य तस्मिन् विश्ववर्ये, लोकाग्रस्थाने मोक्षे इत्यर्थः । केषाम् ।' नः' अस्माकम् । किंविशिष्टा भारती ? । ' सा' सा - प्रसिद्धा । अयं तच्छब्दो यदुपादानं नापेक्षते प्रसिद्धार्थेऽभिहितत्वात्, [परं] तदुक्तम्-" प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते " इति । पुनः किंविशिष्टा भारती ? । परेषां - शाक्यादीनां मतानि तानि एव तिमिराणि - अन्धकाराणि तेषु तेषां वा उम्रा दीप्ता भानोः- सूर्यस्य प्रभा - कान्तिः परमततिमिरोग्र भानुप्रभा, परपाषण्डमतध्वान्तविनाशकत्वाद् भानुरित्यर्थः । पुनः किंविशिष्टा भारती ? । 'गभीरा' अगाधमध्या । कैः । भूरयः - बहवः मङ्गाः - अर्थविकल्पाः, भूरिभङ्गाः तैः ' भूरिभङ्गैः' । कथम् ? 'भृशं' अत्यर्थम् । किंविशिष्टे निकाय्ये ? । हतिः - हननं तदस्यास्तीति हतिमान्, न हतिमान् अहतिमान्, तस्मिन् 'अहतिमति' । पुनः किंविशिष्टे निकाय्ये || 'महति' महत्प्रमाणे, पञ्चचत्वारिंशलक्षयोजन प्रमाणत्वात् । ['अतिशयेन महत् अतिमहत्, तस्मिन् 'अतिमहति'।] 'अहतिं' इति भिन्नपदं वासपदस्य विशेषणं, तत्र नास्ति हतिः - विनाशो यस्मिन् सः अहतिः तं ' अहतिम् । पुनः किंविशिष्टे निकाय्ये ? । ( 'अतिमते' अतिशयेन अभिप्रेते ) [ "अतिहिते' अतिशयेन हितकारिणि ] । कस्य ? | 'ते' (तव)। हे इति भिन्नपदम् । ते कथंभूतस्य ? ' शस्यमानस्य' स्तूयमानस्य, नरामरेन्द्रः इति गम्यम् । कथम् ? । 'सदा' निरन्तरम् । किंविशिष्टस्य ते ? | 'आनन्दधानस्य' परमानन्दस्थानस्य । पुनः किंविशिष्टस्य ते ? | ' अमानिनः निरहङ्कारस्य, यद्वा अमानिनः (भिः) सहितस्य सामानिनः । (पुनः किंविशिष्टस्य ते ? | 'ईशस्य ' स्वामिनः, जगतामिति गम्यम् । ) पुनः किंविशिष्टा भारती ? । जननानि - जन्मानि मृतयःमरणानि ता एव तरङ्गा - ऊर्मयः यस्मिन् स जननमृतितरङ्गः तादृशः 'निष्पारः ' नास्ति पारः - पर्यन्तः (यत्र) तादृशः संसारो-भव एव नीराकरो -- जलधिः तस्मिन् अन्तर्--मध्ये निमज्जन्तो- घुडन्तो ये जनाः -- लोकाः तेषामुत्तारः-- पारप्रापणं तदर्थे तस्मिन् वा नौरिव नौ:-- द्रोणीव द्रोणी 'जननमृतितरङ्गनिष्पार संसारनीराकरान्तर्निमज्जज्जनोत्तारनौः । पुनः किंविशिष्टा भारती ? ।' संसद् (इव) समा इव सभा । कस्य ? | 'मानस्य 'पूजायाः । पुनः किं कुर्वती भारती । ' तन्वती ' विस्तारयन्ती । कानि कर्मतापनानि ? | सामानि - प्रियाणि । वाशब्द इवार्थे । पुनः किंविशिष्टस्य ते ? ।' दधानस्य ' विभ्रतः पुष्यतो वा । किं कर्मतापन्नम् ? । तापः - संसारोष्मा तस्य दानं (-खण्डनं ) 'तापदानम्' । कस्मै ? | ' मतिमते' बुद्धिमज्जनाय प्राज्ञाय । पक्षे हे अतन्वतीतापत् इति तीथकृत्संवोधनं कृतं एतद्विशेषणं भारत्या अपि भवति तत्र अतनवः - महत्यः अतीता-गता आपदः यस्याः सा श्रतन्वतीतापत् । पताढशी तव भारती नः - अस्माकं निकाय्ये-मोक्षे वासं वितीर्यात्तराम् । इति पदार्थः ॥ २८६ अथ समासः - परेषां मतानि परमतानि, परमतान्येव तिमिराणि परमततिमिराणि, भानोः प्रभा भानुप्रभा, उम्रा चासौ भानुप्रभा च उग्रभानुप्रभा, परमततिमिरेषु उग्रभानुप्रभा परमततिमिरोग्रमानुप्रभा । भूरयश्च ते भङ्गाश्च भूरिभङ्गाः तैः भूरिभद्वैः । विश्वेषु वर्य विश्ववर्ये, तस्मिन् विश्ववर्ये । अतिशयेन वितीर्यात् इति वितीर्यात्तराम् । हननं हतिः, न हतिः अहतिः, अहतिः यस्यासौ अहतिमान्, तस्मिन्नहतिमति । यद्वा नास्ति हतिर्यस्यासौ अहतिः, तं अहतिम् । अतिशयेन मतिमान् अतिमतिमान्, तस्मै अतिमतिमते । शस्यते - प्रशस्यते इति शस्यमानः, तस्य शस्यमानस्य । न तनवः अतनव:, बह्वचः ( महत्यः ? ) इत्यर्थः, अतनवः - महत्यः अतीताः आपदः यस्मात् सः अतवतीतापव्, तस्य सं० हे अतन्वतीतापत् ! | आनन्दस्य धानं आनन्दधानं, तस्य आनन्दधानस्य । मानोऽस्यास्तीति मानी, न मानी अमानी, यद्वा न विद्यते मानो येषां ते अमानिनः साधवः, अमानिभिः सहितः सामानी, तस्य सामानिनः । जननानि च मृतयश्च जननमृतयः, जननमृतय एव तरङ्गाः यस्मिन् १-२ [ ] एतचिह्नान्तर्गतः पाठः प्रामादिकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562