Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 540
________________ ऐन्द्रस्तुतीनामवचूरिः । १९ सम्भव ० वं किं कुर्वन् ? 'भाविनि ' शुभध्यानवति पुरुषे सुखं ददत् । हे 'भावा०' भावारं - मिथ्यात्वाद्यङ्ग तस्य वार : - - समूहस्तद्वारण ! | 'विश्वं विश्वं ' सर्व जगत् । हे ' अभाविनिभ !" क्षीणमोहतयाऽभविष्यत्कपट ! | 'अव' रक्ष | हे 'अरवारव !' अरवाणामारखो यस्मात् " मूको जल्पति” इत्यादिस्तुतेः । हे ' अरण !' असङ्ग्राम ! ॥ १ ॥ यद्धर्मः ० -- ' सन्ततं' निरन्तरम् । 'उदितोदितः' पूर्व पञ्चाच्चाप्राप्तनिधन: । 'अदित' ददौ उदारो - वार्षिकदानदातृत्वात् दानशौण्डः करो यस्य । कं सुखं रातीति करः, उदारश्वासौ कर इति । शुचिः-निर्मला सन्तता - अच्छिन्नधारा मुदिता - परसुख तुष्टिर्यस्यासौ । न स्तः दाराः - स्त्रियः करो- दण्डश्च यस्यासावदारकरः ॥ २ ॥ जैनी ० - 'या' हेतुभूतया 'सन्तः' उत्तमाः किं 'शमितां' उपशान्ततां 'नेताः १' न प्राप्ताः ? | जैनी गीः कीदृशी १ 'मिता ० ' मितैः स्वल्पैः अक्षरैः - वर्णैः रुच्या - मनोहरा, बढर्याल्पसूत्रस्यैव शास्त्रस्य सारत्वात् । समवतरन्तः - अपृथक्त्वदशायां सूत्रे - समापतन्तो नया यस्यां सा समव० तया । शमिता - उपशमं नीता अमितामिता - बहुरोगिता यस्मिन् एतादृशं यद् अक्षरं - मोक्षस्तस्य रुच्या - तदभिलाषेण ॥ ३॥ दलयतु ० - जनतया - जनसमूहेन महिता - पूजिता । ' हिता' अनुकूला । ' हि ' निश्चितम् । तारः-उज्ज्वलः आगमः - सिद्धान्तस्तं ददातीति तारा० । तारा- उज्ज्वलाऽऽगमदेति च पदद्वयं वा । खलताम् | अहितेषु - वैरिषु आहितौ - स्थापितौ अहितारागमदौ - अमिय स्नेहाहङ्काराभावौ दुर्जनां-यया सा ॥ ४ ॥ ३ ॥ त्वमभि० - निराकृतं - निरस्तं सभाजनानां - पर्षल्लोकानां साध्वसं - इहलोकादिभयं येन । ‘हारिभिः' मनोज्ञैः । कृतं सभाजनं प्रीतिर्येन । साधून न सहन्ते इति साध्वसहाः, ते च तेऽरयश्च तैः ॥ १ ॥ भगवतां ० -- ' आशु' शीघ्रम् | 'भवतो' वः । ' तनुतां' कुरुताम् । 'परं' शत्रुम् । 'उत्करः' समूहः । 'शुभवतां' कल्याणवताम् । ' तनुतां ' कृशताम् । परा:-- प्रकृष्टा मुदो- हर्षान् करोतीति परमुत्करः ।। २ ।। 1 त्रिदिव० --- स्फुरन् सुरसमूहो - देवगणो यत्र तत् । 'अयम्' असौ । 'अर्हता' पूजयताम् । मतम् -- इष्टं पदं ददत् । सुष्ठु - शोभनो रसः - शान्ताख्यो यत्र तत् । 'ऊहमयं' तर्कमयम् । ' अर्हती' जिनानाम् । 'मतं ' सिद्धान्तः ॥ ३ ॥ धृतसकाण्ड०- - तेजसा - प्रतापेन न रहिता - न वियुक्ता । सत् - शोभनं अयं - भाग्यं यस्याः सा । रुच्या - कान्त्या राजिता -- शोभिता । 'परैः' शत्रुभिः अजिता । नरेभ्यो हिता नरहिता । सह दयया वतत इति सदया । 'रुचिरा' मनोहरा || ४ || ४ || Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562