Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऐन्द्रस्तुतीनामवचूरिः। कलितमोदमनन्त०--कलित:-प्राप्तो मोदो-हर्षो येन । 'अनन्तरसाश्रये अनन्तः-अपर्यवसानो रसः शान्ताख्यस्तदाश्रये। कलितमसोः-रणमोहयोः दमनम्। 'तरसा वेगेन। आश्रये' भने॥१॥
जिनवरा गतताप०-'जिनवरा तीर्थङ्कराः। गतौ तापदरौ यस्या अत एवोचिता मजमाना ताम् । आजिः-सङ्ग्रामो नवरागो-नवानुरागः ततापद्-विस्तीर्णापत् साभिररोचिताम्अनभिमताम् ॥२॥
सुरसमान०-सुरसं मानसं-हृदयं यस्य एतादृशो दक्षो-निपुणो गणधरादिः तस्य रहस्य ।। 'ते' तव । घनानि-निबिडानि प्रभासुराणि-देदीप्यमानानि समानानि-मानोपेतानि सन्ति-शोभनानि अक्षराणि यस्य ॥३॥
___ सदसि रक्षति ०-'सदसि' सभायाम् । रक्षति' अवति । 'भासुरवाजिन' दीप्यमानतुरङ्ग इता। 'सदसिः सतखगा। नास्ति क्षतिर्यस्याः सा अक्षतिः, ईदृशी भा-कान्तिर्यस्याः। 'सुरवा' सुशब्दा । 'जिनं भगवन्तं प्रणता ॥ ४ ॥१४॥
श्रीधर्म !o-कर्मद्रौ-कर्मक्षे वारणो-हस्ती तस्य । सती-शोभनाऽऽयतिर्यस्य ॥१॥
गिरा त्रिजगदुद्धारं०-भया-कान्त्या असमाना-अनुपमा । श्रिया भासमाना । अतत:-प्रकृतोऽनयो यया सा ॥२॥
वचः पापहरं.---'सातङ्के' सभये । बलिभिः-कुतीयः नोदितं-प्रेरितम् ॥ ३॥ दधुः प्रसादा:०-शक्ति-बलम् । अत्याजित आदरो यैस्ते ॥ ४ ॥ १५ ॥
अस्याभूद्-'अक्षोदम्' अक्षुण्णम् । 'भरतस्य' भरतक्षेत्रस्य । 'वैभवं विमुत्वम। 'अयं भाग्यम् । वैभवं किं०१ सारेण-बलेन अजितम्, आरेण सहाजियत्र तस्य भावस्तत्ता सह तयाऽस्तीति वा। 'दक्षः निपुणः । 'अदम्भरतस्य' अमायानिधुवनस्य । 'वै निश्चितम् । 'भवमयं संसारमय 'साराजितं' श्रीशोभितम् । 'तनु' कुरु । अतः-हेतोः॥१॥
येपां चेतसि०-भवता किं०१ प्रज्ञालाभो-धीप्राप्तिस्तद्वताम् । 'अरम्' अत्यर्थ भावनानाअनित्यताद्यनुप्रेक्षाणां आभोगो-विस्तारस्ततः । 'प्रज्ञाला' धीशालिनः। उचितारम्भाणा-सदारम्भाणाम् अवनाः-रक्षकाः॥२॥
मिथ्यादृष्टि-आचारेणोचितम् । अरयम्-अवेगस् अदम्भैः-अशठैः अवारित !अनिपिद्ध ! । 'अपाप' अदुरित ! 'वाचा' वाण्या 'रोचित!' अभिमत! । मान:-अहङ्कारः, मारःकामः, यमः-कृतान्तस्तान् यति इति । 'वा' पूरणे । 'चारो !' अभिराम ! | ‘चितमानमारयमदं । चितान-पुष्टान् मानादीन् द्यतीति वा । चित्ते किं० ? भावारितापापहे ॥ ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4ff2a01498cd612d88dce1103574038d7c4f716b964cefde45aa0b0f10fe435e.jpg)
Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562