Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२३
ऐन्द्रस्तुतीनामवचूरिः। अष्टमदस्थानानामनुकूलताभवो-अनुरूपेणापध्यानचित्तेनोत्थो यो मदस्तं रदति-विलेखयति यस्तम् । 'रुच्या' भक्त्या । अकस्य-दुःखस्यान्तो यस्मात् तम् । 'महामि' पूजयामि । 'तमोहरम् । अज्ञानहरम् ॥ २॥
शुचिगम०--'अनवरतं. निरन्तरम्। 'अलोभावस्था निर्दम्भदशामाश्रयन् । समयः किं०१ 'अभितः सर्वतः अयशो हरन् । गलन् नवरतमल:-अभिनवनिधुवनद्धयमानं कर्म यस्मात् । मनः किं० ? भावस्य-शुभध्यानस्य स्थाम-बलं तस्याश्रयं-गृहम् । नयैः शौमितः॥३॥
सुकृत-हे 'अपविफल!' 'करा' अपगतं विफलं-वन्ध्यं कर्म यस्य, कं-सुखं रातीति करा, अपगतो विफल:-मोघः करो-दण्डो यस्याः सा इत्येकमेव वा पदम् । दिवि-स्वर्लोके त्यागेहा-दानेच्छा यस्याः सा, नृभवस्पृहयालुतया द्योस्त्यागेहा वा यस्याः सा । 'द्युत्या' कान्त्या । 'घनाघनराजिता' मेघवच्छोभिता । घण्टादीनि करे यस्याः सा । 'अगेहा' निहा । या (धना०) बहुपापनरैः-मनुष्यैरजिता ॥४॥ ११ ॥
__ पद्मोल्लासे०-सती-शोभना धीर्यस्य । लोकं किं० १ नास्ति पाताशा यस्य तम् । रुचिराश्च पवित्राश्च रुचिरपवित्राः, तान् न सहन्ति(न्ते) ते तदसहाः, ते च ते अश्यश्च तेषां प्रभा-कान्तिः, ततो नास्ति सा यस्य तस्यामन्त्रणम् । 'अव' रक्ष । हे 'सद्धीर!' सतां मध्ये धीर ! त्वम् , संश्चासौ धीरश्चेति वा । त्वं किं० ? 'पाता' रक्षिता। शमे रुचिर्यस्यासौ शमरुचिः। हे 'अपवित्रास !! अपगतभय !। हारी-मनोहरः प्रभावो यस्य, अथवा हे शमरुचिर ! शमे रुचिं रातीति शमरुचिरः। 'हे पवित्रासहारिप्रभाव ! वज्रभयहृदनुभाव ! ॥१॥
लोकानां०-'हृद्या' मनोज्ञा । 'राजी' श्रेणिः। 'वने विपिने। 'अत्र' इह । 'भवतु' अस्तु । दमे रसो यस्याः सा । लोकानां 'अर्थान् । धनादीन् पूरयन्ती । 'अतापा' तापरहिता । 'तमोहा' अज्ञानहरा । या 'राजीवनेत्रा' कमलनयना । भवं तुदतीति भवतुद । अमरसार्थेन-देवगणेन आनता। 'अपातमोहा' पातमोहाभ्यां रहिता ॥२॥
उत्तङ्गस्त्वय्य०-शस्त:-प्रशस्तः आदरो यस्य, शस्ते-कल्याणे वा आदरो यस्य । हे 'शस्त !' प्रशस्त !, अदर! 'निर्भय !' इति पदद्वयं वा । अति-अत्यन्तं क्षतः शुक्-शोको येन तस्मिन् । सन्-शोभनोऽनेकान्तः-स्याद्वादो यत्र । सुकृतं किं० ? 'सिद्धान्तरागः' सिद्धविरह आगोअपराधो यतस्तत् । सुष्ठवः (ठु)-शोभना आदेशा यत्र तस्यामन्त्रणम् । 'स्तात् । अस्तु । अरातीनां-वैरिणां क्षतं यस्मात् एतादृशं यत् शुचि-भाग्यं तस्य सदने ॥ ३ ॥
वाग्दे०-शङ्काया अन्तो यत्र । 'देहि। वितर । वादे किं० १ नव्यानि ईरितानिप्रेरितानि रणानि येनैतादृशं कुशलं यत्र । वस्तुतः तादृशं कुशलं यस्या इति सम्बोधनमेव वा । प्रसाद किं० १ प्रपूर्णा आशा यस्मात् । हे 'कान्ते ! मनोज्ञे! । देहिना-प्राणिनां नव्ये !-स्तुत्ये!। अरीणांवैरिणां तरणं-लक्षणया विजयस्तत्र कुशले !-दक्षे ।। सु-शोभना भ्रूः सुभ्रूस्तया ॥ ४ ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/454a0b604d4e93fb6a9f95f01f67fa7fc7549c57dcb0be1567e3c782630e7000.jpg)
Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562