Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऐन्द्रस्तुतीनामवचूरिः ।
नमो हतरणायते !० - हे विमल ! | हे 'हतरणायते !' इतरणा - हतसङ्गामा आयतिः - उत्तरकालो यस्य, हता- अपनीता वा रणायतिर्येन । हे 'सभाजित !' सेवित ! | कैः ? असुरैः । किं० ? 'विभासुरैः' दीप्यमानैः । कया ? 'पुण्याशया' धर्मलिप्सया । हे न समदमाय ! सह मदमायाभ्यां वर्त्तते यः स स० । हे पुण्या० ! पुण्यः - पवित्रः आशयो यस्य । हे 'असभाजित !' न सभया जित असभाजित ! | भया जिता विभा - कान्तिर्यस्य । हे 'विमलविश्वमारक्षते!' मारस्य जनिता क्षतिः मारक्षतिः, विश्वा सर्वा चासौ मारक्षतिश्च विश्वमारक्षतिः, विमलश्च विश्वमारक्षतिश्च विमलविश्वमारक्षती, विगते ते यस्मात् । अथवा विमला -निर्मला विश्वा-पृथ्वी यस्मात्, मारस्य क्षतिर्यस्मात् इति सम्बोधनद्वयम् । विमल 1-निर्मल !, विश्वस्य सर्वस्य मारस्य रणस्य - क्षतिर्यस्मादिति वा । 'असमदमाय' निरुपमेन्द्रियजयाय । 'मोहतरणाय' मोहस्य तरणं यस्मात् तस्मै । 'विश्व' जगत् आ - समन्तात् रक्षते -- तुभ्यं नमोऽस्तु इत्याह्यम् ॥ १ ॥
महाय तरसा० - अजेषु - सिद्धेषु मध्ये गतिर्येषां एतादृशा ये बोधिदा: - तीर्थकृतस्तेषाम् । 'अहो' इत्याश्चर्ये । 'दया' करुणा । 'वः' युष्माकम् । 'महाय' महोत्सवाय । भवतु । ' तरसा' वेगेन । 'हिता' पथ्या । कीदृशानाम् ?' भवतुदां' भवं तुदन्तीति भवतुदस्तेषाम् । 'तता' विस्तीर्णा । सह कलहेन अस्ति या सा सकलहा, न तादृगू 'असकलहा' | 'आभया' शोभया कृत्वा 'असमाना' निरुपमाना । महायतेन रसेन - शान्ताख्येन आहिता - स्थापिता । 'जगति' लोके । 'अधिदाना' अधिकं दानं यस्याः सा। 'महोदया ' महानुदयो यस्याः । 'दान्तता०' दान्ततया न स्तः सकलौ - निःशेषौ हासमानौमोहप्रकृतिभेदौ यस्यां सा । नास्ति भयं - साध्वसं यस्याः सा अभया ॥ २ ॥
२४
क्रियादरमनन्तरा० –' वैभव' विभुसम्बन्धि मतं । 'मतम्' अभीष्टम् । 'वैभवं' सम्पदम् । ‘अरम्' अत्यर्थं क्रियात्। ‘अनन्तरागततया' अविरहशिष्यप्रशिष्यादिसन्ततिप्राप्ततया । 'सदा' सर्वदा । 'चितं' व्याप्तं पुष्टम् । समुदा - सहर्षेण इतं प्राप्तम् । सती आशा यस्य तम् । 'अवता' रक्षता । ‘शमत्रता' शान्तेन । ‘अभवेन' भवरहितेन अर्थात् तीर्थकृता । 'उदितं' कथितम्, अत एव 'समुदितं ' सामस्त्येन उदयं प्राप्तं 'भवे' संसारे । 'अनोदितम्' अमेरितम् । क्रियायामादरो यत्र तत् । अनन्तो यो रागस्तेन ततैः- विस्तीर्णैर्याचितम् - अध्येतुं प्रार्थितम् ॥ ३ ॥
प्रभावित रतादरम् ० - रोहिणी शं वितरतात् । कीदृशम् ? ईहितै: - वाञ्छितैः कृत्वा अशुक् - शोकरहितं 'च' पुनः उरु - विस्तीर्णम्, अतिशयितः प्रभावी प्रभावितरः तस्य भावस्तत्ता तस्यां आदरो यत्र ।' अरम्' अत्यर्थम् । 'आशु' शीघ्रम् । कीदृशी ? 'प्रभा' प्रकृष्टा मा यस्याः सा । सुरभियातागोगता, सा चासौ तारोहिणी च - तारविचारिणी च सुरभियातता रोहिणीति वा । अनन्यजितदण्डे भर्त्तरि आशा यस्य ईदृशो यो मारः - कामस्तेनोचिता - योग्या । सुरेभ्यो भी:- सुरभीस्तया अतता | गुरुणा चापेन राजितः करो यस्याः सा । आ-समन्तात् रोचिता - श्रद्धिता ॥ ४ ॥ १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562