Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऐन्द्रस्तुतीनामवचूरिः ।
चक्रधरा०- - प्रभासुरो - देदीप्यमानो यो विनतातनुभवो - गरुडस्तस्य पृष्ठम् । अनुदिता - अनुदीर्णा आपद् यस्याः । 'अरम्' अत्यर्थम् । गता आरवाग् - शात्रत्रवाणी यस्याः । सुरैः - देवैः विनताविशेषेणानता । ' तनुभवपृष्टं' स्वल्पभवप्रश्नम्, स्वल्पभवोत्तरकालं वा, अनु-लक्ष्यीकृत्य । दितापदाखण्डितास्थाना अत एव रङ्गेण तारा वाग्-वाणी यस्याः सा ॥ ४ ॥ १८ ॥
9:46
महोदयं प्रवितनु० नास्ति घनं अघं यस्य । नोदितौ - प्रेरितौ परौ - प्रकृष्टौ मोहमानौअज्ञानाहङ्कारौ येन । अदिताः - अखण्डिताः पराः - प्रकृष्टाः कहा- विचाराः यत्र तादृशं मानसं
यस्य ॥ १ ॥
मुनीश्वरैः स्मृत ० -- दानं - त्यागः तामरसानि - कमलानि तैः सहित ! | शेषं स्पष्टम् ॥२॥
जिनः स्म यं ० - ' मुदा हर्षेण । अनेकयोगिभिः पठितम्, 'रसं' शान्ताख्यं 'गतं' प्राप्तम् । 'अपरागं' गतरागं यथा स्यात् तथा । उदारं च तत् सङ्गतम् । अपरागमैः - अन्यशास्त्रैः अहतम् ||३|| तनोतु ० – 'अनाविला' निर्मला । सह भया वर्तत इति सभा | 'गवि' पृथिव्याम् । कृतंविहितं धीरतापदं - धैर्यस्थानं यया । अविकृता - अविकारभाग् धीर्यस्याः । तापं ददातीति तापदा, न तादृग् अतापदा । कृतधीरतास्पदा वाऽऽपदा ( ३- १ ) अविकृतधीरिति (रता ) वा ॥ ४ ॥ १९ ॥
तव मुनि० - वनं - काननं । घनो - मेघः । रोहितं -पाटलम् । मानिनां तमसः - अज्ञानस्य पापस्य वा हरणम् । ‘अनघ !' निष्पाप ! । इतौ - गतौ मोहरणौ - अज्ञानसङ्ग्रामौ यस्मात् ॥ १ ॥
अवति जगन्ति ० – आवलिः - श्रेणिः । 'तरसा' वेगेन । 'ईहितानि' वाञ्छितानि । सु-शोभनो रवो यस्याः सा । मयि किं ? रसं भजतीति रसभाक् तस्मिन । अवलितः - अनपगतः रसः-शान्ताख्यो यस्य तस्मिन् । सुरवारेण देवगणेन सभाजितया - सेवितया ॥ २॥
भ
-0
यतिभिरधीत - अघं- पापं तदेव नगः-शैलः । यतिभिः किं० १ न सन्ति भङ्गो मानो मरणं च येषां तैः । योगं विभर्तीति योगभृत् तम् । 'अनु' लक्ष्यीकृत्य । घनाः - निविडा गमा:- भङ्गाव यत्र । रणैः-सङ्ग्रामैः रहितम् । अनुयोगैः भृतं - पूर्णम् ॥ ३ ॥
Jain Education International
२७
वितरतु वाञ्छितं ० - अयशो हरतीति अयशोहत् । इतं - गलं रामः पापं यस्याः । महान्तः शुभविनोदा:-कल्याणविलासा यत्र तादृशानि विमानानि विद्यन्ते येषां तेषाम् । 'हृदि' हृदये । वाञ्छितं किं०१ ‘ततं’ विस्तीणम् । आमं-रोगं जहातीत्यामहा, ततौ विस्तीर्णो मामहौ-लक्ष्म्युत्सवौ यस्याः सा इत्येकमेव वा पदम् । भविनो भव्यस्य । दिवि-स्वर्गे । मानवताम् अहङ्कारिणाम् ||४|| ||२०||
«
20 ←
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1d7d8ecdb7a9eac029df5aaa6ebaaed7692aede4fbdffe2dae9495d860649c44.jpg)
Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562