Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 547
________________ बतकमवचूरिः । शत्रूणां घन० - 'पातात् ' रक्षतात् । आनतानां मानवासुराणां हिता । सुमुदां मुहर्पाणां राजिपु - श्रेणिषु । 'रुच्या मनोहरा । पातः - पतनं, अदानं-अवितरणं, तमः - अज्ञानम् | 'नवासु' नव्यासु 'अरुच्या' अनभिलाषेण रहिता । सुष्ठु मुद्रा यस्याः सा । 'आजिषु' सङ्ग्रामेषु ॥ ४ ॥ १६ ॥ २६ स जयति० - 'सुरमणीनां' सुररत्नानां 'वैभवे' विभुत्वे 'सन्निधाने' सन्ति निधानानि यत्र । सति निधाने इति वा । वैभवे - विभवसम्बन्धिनि । नास्ति हतिर्यस्य तदहति ! 'सुरमणीनां' सुखीणाम् । 'वै' निश्चितम् । 'भवे' संसारे । 'सन्निधाने' समीपे ॥ जयति जिनततिः - अमदैः - अनहङ्कारैः यतिभिर्महिता - पूजिता । 'अरम्' अत्यर्थम् । 'रीणामपाशं ' क्षीण रोगपाशम् | 'मदयति' मत्तं कुरुते । 'महि' उत्सवम् । 'तारं' उज्ज्वलम् । अपगता आशा यस्य तदपाशम् ॥ २ ॥ 01 अवतु गदित० – परमस्य - उत्कृष्टस्य तरणस्य हेतु: - निदानम् । 'छायया' शोभया । 'भासमानैः' दीप्यमानैः । अपरेषां मतमेव रणम् । छायया किं० ? अतुच्छो-बहुल आयो- लाभो यस्याः । आभया-कान्त्या असमानैः - निरुपमानैः, अभयैः असमानैश्चेति वा ॥ ३ ॥ कलितमदनलीला० - ' सदसि : ' सत्खड्गा । ' उचितमारात् ' अनुरूपकामात् । ' घाम' गृहम् । ‘हन्त' इत्यामन्त्रणे । अपकारं, 'सदसि' पर्षदि । 'रुचितम्' अभिमतम् । 'आराद्धा' आसेविता । अपकारं किं० ? नास्ति महः - उत्सवो यत्र तदमहम् । तापं करोतीति तापकारम् ॥ ४ ॥ १७ ॥ *>*<<< हरन्तं संस्तवी • 10 --- आनमन्तः असुरसार्था - दैत्यगणा वाचंयमाः - मुनयश्च यस्य सः । दम्मो- माया रतं - निधुवनं आधि: - मानसी व्यथा तासां यत् पापं तं ( तत् ) द्यति - खण्डयतीति तम् । हतः अमानः-अप्रमाणो मद:- अहङ्कारो येन तस्यामन्त्रणम् । यमं - मृत्युं द्यति खण्डयतीति तम् । यमान् महाव्रतानि ददातीति तमिति वा । हे 'भरताधिप ।' भरतस्य भरत क्षेत्रस्य अधिपःस्वामी चक्रिजिनत्वात् ॥ १ ॥ भीमभवं हरन्त० - स्मरतरणस्य - कामपारगमनस्याधिकार इव मुदिता - परसुखतुष्टिः तस्थाः पदं-स्थानम् । उत्कृष्टा या - लक्ष्मीर्यस्य यस्माद् वा । 'अविरतम्' अनारतम् । 'उत्करं' समूहम् । भीमभवं किं० ? रणं च आविश्व रणाधी ते करोतीति तत्कारम् । उदिता आपद् यस्मात् तम् । उत्करं किं० १ उद्यमेन-अभियोगेन ये विरताः - निवृत्तास्तेषां मुदं करोतीति तम् ॥ २ ॥ भीमभवोदधे ० –'अभवत् ' अभूत् । 'अवतः' रक्षतः । 'यशः श्लोकः । अभि- समन्तात् तरणेन | जिनपतिमतं किं० ? 'न' नो 'माहितं' उन्मादितम् । नथं 'इतं' प्राप्तम् । 'हि' निश्चितम् । भवदवेसंसारदवाग्नौ तोय !-जलसम ! | 'रणेन' सङ्ग्रामेण । 'अदितम्' अखण्डितम् । 'न यमितं' न बद्धम् । ' हितं ' पथ्यम् ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562