Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 539
________________ ऐन्द्रस्तुतीनामवचरिः। ऐन्द्र०–'शमवतां राज्या' प्रशमिना श्रेण्या। 'गीतमहोदयः' गीतो महानुदयो-ज्ञानमतिशयो वा यस्य, गीते महोदये-कान्तिकरुणे वा यस्य सः । सन्-उत्तमो योगी सद्योगी । इतः प्राप्तो महोदयो-मोक्षो येन स इतमहोदयः। राज्यस्याधिकारः-कार्यपरत्वं तेनाजित:-स्ववशतामनीतः, राज्ये आधिकारा:-मानसव्यथाकारिणः शत्रवस्तेरजित इति वा, राज्याधिरेव कारा दुःखहेतुत्वात् तयाऽजित इति वा । ' अधिकाः' प्रत्यहं प्रवर्द्धमानत्वाद्, अधिकं कं-सुखं याभ्य इति वा ॥१॥ उद्धता०—'तीर्थे सङ्के । शस्त:-शिवसुखहेतुतया श्लाधितो रसः शान्ताख्यो येषां ते । महसा-तेजसा दितं-खण्डितं भयं यैः, ते च ते अकान्ताश्च, अकस्य-दुःखस्य अन्तो येभ्यस्ते इति समासः । सताम्-उत्तमानां आशायाः-इच्छायाः पदं-स्थानम् । पुष्णन्तु-इष्टदानेन फलवत् कुर्वन्तु । महती उदिता भा-कान्तिस्तया कान्ताः-मनोहराः। शापम्-उपालम्भं यतीति शापदम् ॥२॥ जैनेन्द्र०-अभङ्गानि अश्रद्धारहितत्वात् मानसानि येषां तेषां हितम् । मानानि-प्रमाणानि ॥३॥ या जाड्यं०--पुण्यौ-पवित्रौ प्रभाविक्रमौ-कान्तिपराक्रमौ ययोर्याभ्यां वा, प्रकृष्टौ भाविक्रमौ ययोस्तौ प्रभाविक्रमौ, ततः पुण्यौ च तो प्रभाविक्रमौ चेति वा समासः॥ ४ ॥१॥ मनितति०-शमन जितौ मारमदौ-कन्दर्पाहङ्कारौ येन तम् । भेन-ज्योतिष्कदेवभेदेन नक्षत्राख्येन वन्दिता-स्तुता । 'आपत्' साक्षाचक्रे । हे 'अदम्भवन् !' अमायाविन्! । शं कीदृशम् ? 'दितापत्' दिता-खण्डिता आपद् येन ॥१॥ नियत०-'परमतमोहर ! उत्कृष्टाज्ञानहर!। हे 'भया' कान्त्या रुचिर !। हे 'अनिदानं' निदानरहितं दानं ददत ! ॥२॥ नयगहन०-उद्यतं-उद्यमशालि मानसं-चित्तं येषां ते । धुतं-कम्पितम् आरं-वैरिसमूहो येन तत । 'निरस्ताजि' शान्तदेशनाबलादपास्तसङ्ग्रामम् । मुदा-हर्षेण यतमाना:-संयमयोगे उद्यच्छन्तो ये साधवः--यतयस्तान् तारयतीति ॥ ३॥ __ पविमपि०-महैः-उत्सवैः अधिका, 'अरं' अत्यर्थम् । 'पविं' वज्रं महाधिकारं च, 'अपिः' सपुच्चये, 'दधती' बिभ्रती । महाधिं कारयतीति महाधिकारमित्यहितमदविशेषणतया व्याख्याने 'पविमपिदधती' शत्रुहननाद् वज्रमनाच्छादयन्तीति व्याख्येयम् ॥४॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562