________________
स्तुतिचतुर्विंशतिका
[ २४ श्रीवीर
का कधी? । ' भारती' वाणी । 'वितीर्यात्तरां ' दद्यात्तराम्-अतिशयेन दद्यात् । कं कर्मतापनम् १ । ' निवास ' स्थानम् । कस्मिन् ? । 'निकाय्ये ' भवने । " निकाय्यो भवनं कुटः " इत्यभिधानचिन्तामणि: (का० ४, श्लो० ५६ ) । किंविशिष्टे निकाय्ये ? | 'विश्ववर्ये' विश्वं जगत् तस्मिन् वर्यप्रधानं विश्ववर्य तस्मिन् विश्ववर्ये, लोकाग्रस्थाने मोक्षे इत्यर्थः । केषाम् ।' नः' अस्माकम् । किंविशिष्टा भारती ? । ' सा' सा - प्रसिद्धा । अयं तच्छब्दो यदुपादानं नापेक्षते प्रसिद्धार्थेऽभिहितत्वात्, [परं] तदुक्तम्-" प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते " इति । पुनः किंविशिष्टा भारती ? । परेषां - शाक्यादीनां मतानि तानि एव तिमिराणि - अन्धकाराणि तेषु तेषां वा उम्रा दीप्ता भानोः- सूर्यस्य प्रभा - कान्तिः परमततिमिरोग्र भानुप्रभा, परपाषण्डमतध्वान्तविनाशकत्वाद् भानुरित्यर्थः । पुनः किंविशिष्टा भारती ? । 'गभीरा' अगाधमध्या । कैः । भूरयः - बहवः मङ्गाः - अर्थविकल्पाः, भूरिभङ्गाः तैः ' भूरिभङ्गैः' । कथम् ? 'भृशं' अत्यर्थम् । किंविशिष्टे निकाय्ये ? । हतिः - हननं तदस्यास्तीति हतिमान्, न हतिमान् अहतिमान्, तस्मिन् 'अहतिमति' । पुनः किंविशिष्टे निकाय्ये || 'महति' महत्प्रमाणे, पञ्चचत्वारिंशलक्षयोजन प्रमाणत्वात् । ['अतिशयेन महत् अतिमहत्, तस्मिन् 'अतिमहति'।] 'अहतिं' इति भिन्नपदं वासपदस्य विशेषणं, तत्र नास्ति हतिः - विनाशो यस्मिन् सः अहतिः तं ' अहतिम् । पुनः किंविशिष्टे निकाय्ये ? । ( 'अतिमते' अतिशयेन अभिप्रेते ) [ "अतिहिते' अतिशयेन हितकारिणि ] । कस्य ? | 'ते' (तव)। हे इति भिन्नपदम् । ते कथंभूतस्य ? ' शस्यमानस्य' स्तूयमानस्य, नरामरेन्द्रः इति गम्यम् । कथम् ? । 'सदा' निरन्तरम् । किंविशिष्टस्य ते ? | 'आनन्दधानस्य' परमानन्दस्थानस्य । पुनः किंविशिष्टस्य ते ? | ' अमानिनः निरहङ्कारस्य, यद्वा अमानिनः (भिः) सहितस्य सामानिनः । (पुनः किंविशिष्टस्य ते ? | 'ईशस्य ' स्वामिनः, जगतामिति गम्यम् । ) पुनः किंविशिष्टा भारती ? । जननानि - जन्मानि मृतयःमरणानि ता एव तरङ्गा - ऊर्मयः यस्मिन् स जननमृतितरङ्गः तादृशः 'निष्पारः ' नास्ति पारः - पर्यन्तः (यत्र) तादृशः संसारो-भव एव नीराकरो -- जलधिः तस्मिन् अन्तर्--मध्ये निमज्जन्तो- घुडन्तो ये जनाः -- लोकाः तेषामुत्तारः-- पारप्रापणं तदर्थे तस्मिन् वा नौरिव नौ:-- द्रोणीव द्रोणी 'जननमृतितरङ्गनिष्पार संसारनीराकरान्तर्निमज्जज्जनोत्तारनौः । पुनः किंविशिष्टा भारती ? ।' संसद् (इव) समा इव सभा । कस्य ? | 'मानस्य 'पूजायाः । पुनः किं कुर्वती भारती । ' तन्वती ' विस्तारयन्ती । कानि कर्मतापनानि ? | सामानि - प्रियाणि । वाशब्द इवार्थे । पुनः किंविशिष्टस्य ते ? ।' दधानस्य ' विभ्रतः पुष्यतो वा । किं कर्मतापन्नम् ? । तापः - संसारोष्मा तस्य दानं (-खण्डनं ) 'तापदानम्' । कस्मै ? | ' मतिमते' बुद्धिमज्जनाय प्राज्ञाय । पक्षे हे अतन्वतीतापत् इति तीथकृत्संवोधनं कृतं एतद्विशेषणं भारत्या अपि भवति तत्र अतनवः - महत्यः अतीता-गता आपदः यस्याः सा श्रतन्वतीतापत् । पताढशी तव भारती नः - अस्माकं निकाय्ये-मोक्षे वासं वितीर्यात्तराम् । इति पदार्थः ॥
२८६
अथ समासः - परेषां मतानि परमतानि, परमतान्येव तिमिराणि परमततिमिराणि, भानोः प्रभा भानुप्रभा, उम्रा चासौ भानुप्रभा च उग्रभानुप्रभा, परमततिमिरेषु उग्रभानुप्रभा परमततिमिरोग्रमानुप्रभा । भूरयश्च ते भङ्गाश्च भूरिभङ्गाः तैः भूरिभद्वैः । विश्वेषु वर्य विश्ववर्ये, तस्मिन् विश्ववर्ये । अतिशयेन वितीर्यात् इति वितीर्यात्तराम् । हननं हतिः, न हतिः अहतिः, अहतिः यस्यासौ अहतिमान्, तस्मिन्नहतिमति । यद्वा नास्ति हतिर्यस्यासौ अहतिः, तं अहतिम् । अतिशयेन मतिमान् अतिमतिमान्, तस्मै अतिमतिमते । शस्यते - प्रशस्यते इति शस्यमानः, तस्य शस्यमानस्य । न तनवः अतनव:, बह्वचः ( महत्यः ? ) इत्यर्थः, अतनवः - महत्यः अतीताः आपदः यस्मात् सः अतवतीतापव्, तस्य सं० हे अतन्वतीतापत् ! | आनन्दस्य धानं आनन्दधानं, तस्य आनन्दधानस्य । मानोऽस्यास्तीति मानी, न मानी अमानी, यद्वा न विद्यते मानो येषां ते अमानिनः साधवः, अमानिभिः सहितः सामानी, तस्य सामानिनः । जननानि च मृतयश्च जननमृतयः, जननमृतय एव तरङ्गाः यस्मिन् १-२ [ ] एतचिह्नान्तर्गतः पाठः प्रामादिकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org