________________
जनत
स्तुतिचतुर्विंशतिका
स जननसृतितरङ्गः, पारानिर्गत इति निष्पारः, संसरणं संसारः, नीराणां आकरः नीराकरः, संसार एव नीराकरः संसारनीराकरः, निष्पारश्चासौ संसारनीराकरश्च निष्पार संसारनीराकरः, (जननमृतितरङ्गचासौ निष्पारसंसारनीराकरश्च ) जननमृतिरङ्गनिष्पारसंसारनीराकरः, जननमृतितरनिष्पारसंसारमीराकरस्य अन्तः जननमृतितरङ्गनिष्पार संसारनीराकरान्तः, जननमृतितरङ्ग निष्पार संसारनीराकरान्तनिमज्जन्तः (जनन०), जननमृतितरङ्गनिष्पारसंसारनी करान्तर्निमज्जन्तश्च ते जनाश्च जननमृतितरङ्गनिपारसंसारनीरा करान्तर्निमज्जज्जनाः, जननमृतितरङ्गनिष्पारसंसारनी करान्तर्निमज्जज्जनानां उत्तारः जनन०निमज्जज्जनोत्तारः, जननमृतितरङ्ग० निमज्जज्जनोत्तारे नौरिव नौः जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौः । तीर्थ करोतीति तीर्थकृत्, तस्य सं० हे तीर्थकृत् ! । मतिर्विद्यते यस्यासौ मतिमान् तस्मै मतिमते । तापस्य दानं तापदानं, तत् तापदानम् । इति तृतीयवृत्तार्थः ॥ ३ ॥
दे० व्या०—परमतेति । हे तीर्थकृत् ! तीर्थं चतुर्विधः सङ्घः प्रथमगणधरो वेति बोध्यम् । ते-तव भारती -वाणी निकाय्ये-गृहे अर्थात् मोक्षे वासं निवासं वितीर्यात् ( तरां ) ( अतिशयेन ) दद्यात् इत्यन्वयः । ' तू लवनतरणयोः' धातुः । 'वितीर्थात् ( तरां )' इति क्रियापदम् । का कर्त्री ? | भारती । कस्य ? | ते - तव । कं कर्म - तापन्नम् ? । वासम् । कस्मिन् ? | निकाय्ये | “निकाय्यो भवनं कुटः " इत्यभिधानचिन्तामणिः ( का० ४, श्लो० ५६ ) । किंविशिष्टे निकाय्ये ? । ' विश्ववर्ये विश्वस्मिन् वर्ये - समीचीने । पुनः किंविशिष्टे ? | अहतिमति- अविद्यमानहनने । पुनः किंविशिष्टे ? । ' अतिमते ' अतिशयेन मते- वाञ्छिते । हि स्फुटम् । पुनः किंविशिष्टे ! । महाते - विस्तीर्णे । किंविशिष्टा भारती ! | ' परमततिमिरोग्र भानुप्रभा । परमतमेव तिमिरं - अन्धकारं तस्मिन् उग्रभानोः - सूर्यस्य प्रभा इव प्रभा - कान्तिः । पुनः किंविशिष्टा । गभीरा-अलधमया । कै: ? । भूरिभङ्गैः । भूरयो - भूयिष्ठा ये भङ्गा - विकल्पाः तैः । कथम् ? । भृशम् - अत्यर्थं यथा स्यात् तथा । पुनः किंविशिष्टा ? ' जननमृतितरङ्गनिष्पार संसारनी। करान्तर्निमज्जज्जनोत्तारनीः जननं च मृतिश्चेति 'द्वन्द्वः' । त एव तरङ्गाः - कल्लोला यस्य स चासौ निष्पार:- अलब्धप्रान्तो यः संसारनीराकरः संसार एव समुद्रः तस्यान्तर्-मध्ये निमज्जन्तो ब्रुडन्तो ये जना-लोकाः तेषां उत्तारे-तीरप्रापणे नौरिव नौः - द्रोणी । पुनः किंविशिष्टा ? । 'मानस्य वा संसत् मानस्य पूजायाः संसदिव--सभेव । अत्र वाशब्दः इवार्थे भिन्नक्रमश्च । पुनः किंविशिष्टा ? । आतन्वती - विस्तारयन्ती । किम् ? तापदानं सन्तापखण्डनम् ( दो अवखण्डने )। किंविशिष्टस्य ? | ते-तव ईशस्य - स्वामिनः । पुनः किंविशिष्टस्य ? | शस्यमानस्य - स्तूय मानस्य । कथम् ? | सदा निरन्तरम् । किंविशिष्टस्य ? | आनन्दधानस्य- प्रमोदस्थानस्य । सेति भारत्या विशेषणम् । पुनः किंविशिष्टस्य ? | 'अमानिनः' निरभिभूयिष्ठा (?) अतन्वतीतापत् ! इति । अतनवः - महत्यः अतीता - अतिक्रान्ता आपदो येन स तस्यामन्त्रणम् । हे हित ! (कल्याण) कारिन् ! | कस्मै ? । 'मतिमते ' मतिर्विद्यते यस्यासौ मतिमान् तस्मै मतिमते, हितेति समग्रमेव वा जिनामन्त्रणम् ॥ इति तृतीयदण्डकार्थः ॥३॥
++
श्री अम्बिकायाः स्तुतिः - सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसार क्रमाम्भोरुहे ! परमवसुतराङ्गजाऽऽरावसन्नाशितारातिभाराजिते भासिनी हारतारा बलक्षेमदा । क्षणरुचिरुचिरोरुचञ्चत्सटा सङ्कटोत्कृष्ट कण्ठोटे संस्थिते ! भव्यलोकं त्वमम्बा'म्बिके!' परमव सुतरां गजारावसन्ना शितारातिभा रोजिते भासि नीहारतारावलक्षेऽमदा॥४-२४॥
- अर्णव ०
१-२ सम्बोधनार्थे वा ३ ' भासिनीहार० ' इत्यपि सम्भवति ।
Jain Education International
१८७
For Private & Personal Use Only
www.jainelibrary.org