________________
te स्तुतिचतुर्विशतिका
[२४ श्रीवीरज० वि०-सरभसेति । हे अम्बिके !-अम्बिकानानि देवि ! त्वं-भवती भव्यलोकंभव्यजनं, भव्यलोकानां बहुत्वेऽपि जात्यपेक्षयैकवचननिर्देशः, परं-उत्कृष्टं यथा स्यात् तथा सुतरां-अत्यर्थं यथा स्यात् तथा अव-रक्ष त्रायस्वेतियावत् इति क्रियाकारकप्रयोगः । इयं कवुक्तिः । अत्र 'अव' इति क्रियापदम् । का कर्जी ? 'त्वम्' । कं कर्मतापन्नम् ? ' भव्यलोकम् ।। कथम् ? 'परम् । । पुनः कथम् ? 'सुतराम् ।। त्वं कथंभूता ? 'परमवसुतराङ्गजा' अतिशयेन परमवसू-उत्कृष्टतेजसा अङ्ग-जी-पुत्रौ यस्याः सा तथा । पुनः कथं० १ 'आरावसन्नाशितारातिभारा' आराव:-ध्वनिस्तेन सन्नाशित:-प्तम्यगदर्शनं नीतः अरातिभारः-शत्रुसमूहो यया सा तथा। पुनः कथं० १ ' भासिनी ' भासनशीला । पुनः कथं० १ 'हारतारा' हारेणोज्ज्वला । पुनः कथं०१ 'बलक्षेमदा' बलं-सामर्थ्य क्षेमं-वल्याणं ते ददातीति बळक्षेमदा । पुनः कथं० १ 'असन्ना अखिना । पुनः कथं० १' शितागतिभा' शितं-तनूकृतं यद् आरं तस्येव अतिभा-अतिशयेन प्रभा यस्याः सा तथा । पुनः कथं० ?' अमदा ' मदरहिता । कस्याम् ? ' भासि' दीप्तिविषये । अवशिष्टानि सर्वाण्यप्यम्बिकाया देव्याः सम्बोधनानि, तयाख्या यथा-हे 'सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे !" सरभसं-सवेगं नत:-प्रणतः यो नाकिनारीजन:-देवाङ्गनाजनः तस्योरोजपीठीषु-स्तनपर्यन्विकासु लुठन्तः-इतस्ततश्चलन्तः ताराउज्ज्वला ये हारा:-कण्ठाभरणानि तेषां स्फुरन्त:-प्रसरन्तः ये रश्मयः-किरणाः तैः सारे-कर्बुरीभूते क्रमाम्भोरुहे-चरणारविन्दे यस्याः सा तथा तत्सम्बो० हे सरभ० । हे ' संस्थिते !" अधिरूढे ! । कस्मिन् ? ' गजारौ । मतङ्गजरिपो, केसरिणीत्यर्थः। गजारौं कथंभूते ? 'अजिते' केनाप्यनभिभूते । पुनः कथं० १ 'क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटे' क्षणरुचिःविद्युत् तद्वद् रुचिराः-चार्यः उरवः-विशाला: चञ्चन्त्यो-दीप्यमाना एवंविधा या: सटा:केसराः ताभिः सङ्कट:-व्याप्तः उस्कृष्टः-अतिशायी यः कण्ठः-निगरणं तेनोद्भट:-करालस्तस्मिन्। पुनः कथं० १ 'राजिते ' शोभिते । पुनः कथं० ? ' नीहारतारावलक्षे' नीहारः-हिमं तारानक्षत्राणि तद्वद् वलक्ष:-उज्ज्वलस्तस्मिन् । हे ' अम्ब ! मातः !। अजिते राजिते इति विशेषणे दे गजारेः सप्तम्यन्तत्वेन व्याख्याते ते अम्बिकायाः सम्बोधने घटेते च ॥
अथ समास:-सह रभसेन वर्तते यत् तत् सरभसं ' सत्पुरुषः । सरभसं नतःसरभ० 'तत्पुरुषः ।।नाकिनां नार्यो नाकिनार्यः ' तत्पुरुषः।नाकिनार्यश्चासौ जनश्च नाकि० कर्मधारयः। सरभसनतश्चासौ नाकिनारीजनश्च सरभ० 'कर्मधारयः । उरसि जायन्त इत्युरोजा: 'तत्पुरुषः ।।पीठा इव पीठ्यः । उरोजाश्च ताः पीठ्यश्च उरोजपीठ्यः ‘कर्मधारयः। सरभसनतनाकिनारीजनस्योरोजपीठ्यः सरभ० ' तत्पुरुषः' । सरमसनतनाकिनारीजनोरोजपीठीषु लुठन्तः सरभ० 'तत्पुरुषः । ताराश्च ते हाराश्च तारहाराः 'कर्मधारयः । सरभस
१'नार्य एव जनः नाकि-' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org